रमेश: – मनोज नमो नम: | कथं अस्ति भवान् ? किं करोति इदनीम् ?
मनोज: – रमेश, अहं अद्य संस्कृतकथां पठामि तदनन्तरं निद्रां करोमि | भवत: मतापितरौ कुशलौ एव खलु |
रमेश: – तयो: आरोग्यं स्वस्थं एव, देवकृपया | कां कथां पठति ?
मनोज: – उन्नता कथा | कमलाकरस्य बालकस्य कथा अस्ति | तस्य जीवने अनेकानि कष्ठानि भवन्ति बाल्यकालात् एव |
रमेश: – अहं केवलं कथाया: नाम पृष्टवान् |
मनोज: – रमेश, एकवारं शृणोतु | उन्नता कथा अस्ति |
रमेश: – शीघ्रम् वदतु | मम जङ्घमदूरवाण्यां स्वल्पं धनं एव |
मनोज: – अस्तु अस्तु | शृणोतु | यदा कमलाकर: द्वादशवर्षीय: माता दिवङ्गता | पिता तु प्रतिदिनं ग्रामात् नगरं गत्वा आपणे कार्यं करोति परन्तु वेतनं अधिकं नास्ति | बालक: प्रतिदिनं गृहकार्यं कृत्वा विद्यालयं गच्छति | कमलाकर: मातरं अनेकवारं स्मरति निद्रायां अपि | पिता पुत्रपालनाय विवाहं पुन: करोति | परन्तु विमाता निर्दया |
रमेश: – अग्रे किं भवति ? कमलाकरस्य जीवनं इतोऽपि कष्ठकरं भवति किं?
मनोज: – आम् | पिता नगरे एव वसति यत: प्रतिदिनं गमनागमनं कठिनं | माता पुत्रं विद्यालयं गन्तुं विरोधं करोति | सर्वगृहकार्यं कमलाकरेण कारयति |
रमेश: – स: तस्य परिस्तिथिं जनकं वदति किं?
मनोज: – कदापि न | माता तं वनं अपि प्रेषयति काष्ठानि आनेतुं | तथापि कमलाकर: पितरं किमपि न वदति | यत्किमपि कार्यं माता आज्ञापयति श्रद्धया करोति |
रमेश: – कमलाकर: साधारण बालक: नास्ति |
मनोज: – आम् | एकवारं वने पक्षयुता देवी प्रत्यक्षी भवति | सा वरं ददाति कमलाकराय | वरात् स: यत्किमपि प्राप्तुं अवकाशं लभ्यते परन्तु किमपि न इच्छति |
रमेश: – मूर्ख: स: !
मनोज: – उत्तम: स: | अग्रे अवगन्तुं शक्यते |
रमेश: – कथं ? अहमपि कथां पठितुं इच्छामि | सूचयतु
मनोज: – चन्दमामा-मासपत्रिकायां अस्ति |
रमेश: – श्व: कथां पूरयतु | भोजनार्थं गन्तव्यं इदनीम् |
मनोज: – अस्तु | शुभरात्रि: |
पाठक: – यदि दोषा: सन्ति , कृपया ‘comments’ मध्ये मां सूचयतु | धन्योस्मि |
सम्यक् लिखितं भवता। कुत्रापि टङ्कणदोषाणि सन्ति। मतापितरौ यथा।
उत्तमं प्रयत्नं। मनोज एवमेव नियततया करणीयम्।
LikeLike
सम्यक् लेखितं भवता। कुत्रापि टङ्कणदोषाणि सन्ति। मतापितरौ यथा।
उत्तमं प्रयत्नं। मनोज एवमेव नियततया करणीयम्।
LikeLike