माता – (पूजागृहे) – वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विग्घ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥ श्री…
पुत्रः – मात:, मात: (उच्चैः आह्वयति)
माता – (स्वगतम्) अहो ! प्रतिदिनं पूजाभग्नं करोति । हे देव किमपि करोतु । (पुत्रं प्रति) तिष्ठतु …. आगच्छामि । (स्नानगृहं प्रति गत्वा) किम् अभवत् ?
पुत्रः – कुप्यति वा ? मास्तु । अहं….अहं….. फेनकम् आनेतुम् विस्मृतवान् प्रोञ्छं अपि च। ददातु माता ।
माता – अस्तु । पुनः कदापि माम् एतदर्थम् न आह्वयतु । अवगतं वा ?
पुत्रः – (नीत्वा) कदापि न ।
(माता पूजागृहं गत्वा अर्चनं अलङ्कारं नीराजनं च कृत्वा पाकशालां गच्छति ।)
जनकः – (दूरदर्शनं पश्यति) चायं सिद्धं वा ?
पितामही – बुभुक्षिता अस्मि । अल्पाहारं सिद्धम् वा ?
पुत्री – विद्यालयलोकयानस्य आगमनसमयम् अभवत् । मम भोजनपेटिका सिद्धा वा ?
माता – अस्तु अस्तु । प्रतीक्षां कुर्वन्तु । चायं स्वीकरोतु । अल्पाहारं परिवेषयिष्यामि । ततः पेटिकां स्वीकरोतु तथा आचार्यं विरामार्थम् प्रार्थयतु ।
सेवकः – (महोदयं प्रति) मम वेतनस्य अभिवृद्धिम् करोतु । गृहस्य व्ययाः अधिकाः अभवन् । ३,००० रूप्यकाणी मासवेतनाय अपर्याप्तम् अस्ति ।
जनकः – इदानी न । आगामि मासतः कर्तुं प्रयत्नं करोमि । प्रतिवेश्याः गृहे सेवकः केवलं २,५०० रूप्यकाणी लभ्यते । जानामि यत् अत्र कार्यं अधिकम् अस्ति परन्तु अत्यधिकम् न ।
शिशुः – (क्रन्दयति)
पुत्रः – कोऽपि जङ्घमदूरवाणीं शिशवे ददातु ।
मातामही – अनुचितम् कार्यं । भवान् एव गत्वा स्वल्प कालं शिशुना सह क्रीडतु ।
पुत्रः – समयः नास्ति । कार्यलयं गन्तव्यम् ।
सेवकः – आर्ये मम जीवनं दुष्करं । किमपि करोतु कृपया ।
माता – (मातामहीं प्रति) पुत्रः व्यस्तः । अहं शिशुं पालयामि । (सेवकं प्रति) पतिं कथयामि । प्रातःकाले वेतनविषयं पृच्छतु मा । आनन्देन कार्यं कृत्वा गृहं गच्छतु ।
प्रतिगृहे माता सर्वकार्याणि करोति । परन्तु सर्वे तस्याः कार्याणां गणनं न कुर्वन्ति । किमर्थम् ?
पाठक: – यदि दोषा: सन्ति , कृपया ‘comments’ मध्ये मां सूचयतु | धन्योस्मि |