श्रीधरः – मम नेतृत्वे कदापि अनाचरणीयानि कार्याणि न अभवन् । प्रतिदिनं देवपूजां विना यत्किमपि योजनायाः आरम्भं न कृतवान् । परन्तु इदानीन्तनाः कर्मकराः लाभार्थं यदाकदापि अवसरं प्राप्नुवन्ति चेत् अधर्मं कार्यं कर्तुं सिद्धाः एव । किमर्थम् ? कथं तेषु धर्मनिष्ठां स्ठापयितुं शक्यते ? किं करणीयम् ?
[ श्रीधरः विश्वख़्यातस्य महाविद्यालयस्य संस्थापकः । पञ्चादशेभ्यः वर्षेभ्य: पूर्वं देशस्य विद्याभ्यासपरिस्थितिम् अवलोक्य समाजस्य अभिवृद्ध्यर्थं कृतनिश्च्यः आसीत्। पुरुषस्य आत्मविश्वासः त्यागः परोपकारः सत्यधर्मपालनं च इत्यादीनि शाश्वतानि पोषणीयानि मौल्यानि इति सदा वदति । ]
मोहनः – भवान् जानाति खलु । विनाशकाले विपरीतबुद्धिः इति । देशे प्राणवायुः न्यूनः तथापि आपणिकाः तस्य मूल्यं अधिकं कृत्वा एव विक्रीणन्ति । ते जानन्ति यत् रुग्णाः क्रेतुं सिद्धाः अतः तथा कुर्वन्ति ।
[ मोहनः श्रीधरस्य प्रियमित्रं बाल्यकालात् । ]
मोहनः – मानवः एव मानवस्य रिपुः । धनार्थं स्वलाभार्थं सत्यं धर्मम् च अपि त्यजति । तादृशाः जनाः इव प्रायः भवतः विद्यालये अपि कर्मकराः परिस्थित्यानुसारं आचरन्ति ।
श्रीधरः – किम् एषः विपण्याः स्वभावः अथवा कलिप्रभावः । न न । विधाता सर्वेभ्यः सङ्कल्पस्वातन्त्र्यम् अददात् । वयम् अस्माकम् इच्छानुसारं यत्किमपि कर्तुं शक्नुम्ः । कोऽपि न पर्चति । कथं स्वार्थभावानां दूरीकर्तुं शक्यते । विद्यया वा दण्डेन वा आत्मविचारेण ?
मोहनः – जगति सत्यासत्यं नाणकस्य मुख़ं मुख़पृष्ठं इव । को लाभः दुर्विचारस्य चिन्तनेन ? एतत् त्यक्त्वा सुष्ठु चिन्तनं कुर्मः ।
श्रीधरः – भवान् त्यक्तुं शक्नोति , अहं न । एषः मम धर्मः। एतत् मम कार्यं च । चिन्तयामि ……
भो पाठक ! भवतः उत्तरं किं