यथा शक्तिः तथा अनुभवम्

एतत् खलु सरलं वाक्यं । परन्तु तात्पर्यं गम्भीरम् । उदाहरणैः विवृणोमि ।

अन्धः प्रकृतिसौन्दर्यं अनुभवितुं न शक्नोति । यदि द्रष्टुं असमर्थः तर्हि सः कथं प्रकृतेः विविधरूपवर्णानि अनुभवितुं शक्यते ?

ज्वराग्रस्तः मधुरखाद्यं अपि नेच्छति । वस्तु मधुरं एव परन्तु तस्य आस्वादनं अन्यं एव । यथा रुग्णस्य जिह्वा बलहीना ।

वेदाः वर्णातीताः । यस्य वेदपठनस्य वेदाध्ययनस्य सामर्थ्यं नास्ति सः विरोधं करोति । परन्तु पण्डितानाम् अनुभवं भिन्नं एव ।

अन्तरीक्षयात्रिकः भूमेः बहिः गत्वा चन्द्रग्रहणे अवतीर्य चलनं कृत्वा भूमिं प्रत्यागच्छति । यदि कोऽपि तं पृच्छति भूमेः वर्णनं करोतु इति भूमिः नीलकन्दुकः इव इति वदति । अनेकवर्षाणि उपन्यासं कृत्वा सः यत् सामर्थ्यं अवसरं तत् लब्ध्वा प्रयाणं कृतवान् । तदनन्तरं एव सः वैशिष्ट्यानुभवं प्राप्तवान् ।

मम मित्रं यदाकदापि उद्यानं गच्छति तत्र बहु कालं आवसति । अन्यजनाः सः मूढः इति मन्यन्ते । परन्तु यत्किमपि सः पश्यति अन्यजनाः तम् द्रष्टुं असमर्थाः । तस्य पार्श्वे सूक्ष्मदर्शिनीयन्त्रम् अस्ति ।

भगवतः विचारे अपि समानं एव । अनेकवारं बान्धवाः माम् पृच्छति भवान् किमर्थं वारंवारं प्रशान्तिनिलयं गच्छति इति अपि च इदानीं भवतः गुरुः अपि नास्ति (रूप सहित) । अहं तान् कथं उत्तरं देयम् ?

यथा शक्तिः तथा अनुभवम् ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s