कोरोनारोगः सर्वत्र प्रसरति । कुतः कुत्र गच्छति इति कोऽपि न जानाति । सर्वैः मुखवस्त्रधारणं हस्तप्रक्षालणं कृत्वा स्वरक्षणं करणीयम् ।
यदाकदापि गृहे सर्वे जनाः कोरोनाव्याधिग्रस्ताः भवन्ति । दैनन्दिककार्याणि कर्तुम् अपि असमर्थाः कुटुम्बजनाः बहुक्लिष्टं अनुभवन्ति । तस्मिन् कठिनावसरे अवध्यां प्रतिवेशानां अन्यजनानां च सहाय्यं विना जीवनं दुष्करं भवति । यदि सर्वे वेदनया शयनप्रकोष्ठे शिथिलयन्ति तर्हि भोजनपाककार्यं कः करोति ?
एतं परिस्थितिं अवलोक्य सत्य सायि युवकसेवाकर्तारः सम्मिल्ल्य नूतना योजना आयोजितवन्तः । कोरोनारोगः नैकेषु करुणाभावं अजनयत् । ते युवकाः स्वस्थगृहिणीभ्यः भोजनं सङ्गृह्य अस्वस्थगृहजनेभ्यः ददति । प्रेषणं स्विग्गी-जीनी-आप्द्वारा केवलं एकरूप्यकेण ।
मम याता अपि एषां सेवां कर्तुम् पञ्जीकृतवती । तया सप्तदिनेभ्यः मध्यान्हकालभोजनं पचित्वा एकादशवादनात् पूर्वं प्रेषणीयम् । सा एकां केरलाप्रदेशस्य क्रैस्तकुटुम्बस्य सेवावसरं प्राप्तवती । परन्तु भ्रातृजाया केवलं दक्षिणकर्नाटकपाककार्यं जानाति । तथापि उत्साहेन अन्तर्जाले अन्वेषणं कृत्वा केरलाभोजनं पक्तुं पठित्वा आरम्भं कृतवती ।
कार्यमध्ये शीघ्रं शौचालयं गत्वा पारशूट्-तैलकूपीम् आनीतवती । अहं दृष्ट्वा विस्मितवान् । वेगेन ताम् स्तम्भित्वा उक्तवान् एतस्य तैलस्य उपयोगं न करणीयम् इति । पाचनार्थं अन्यनारिकेलतैलं भवति । अहो इति आश्चर्येण अवगतवती । यदि केशतैलैः भोजनं पचितवती चेत् न जानामि तेषाम् अस्वस्थजनानां अनुभवं आरोग्यं च किं भविष्यति इति ।
मित्रस्य साहाय्येन अहं आपणात् केपिएस्-तैलं क्रीत्वा आनीतवान् । ततः अस्वस्थजनानां यातायाः यशं च अपि रक्षणं कृतवान् ।
एषा घटना गतमासे अभवत् ।
पठित्वा हस, हसन् आनन्दं अनुभव ।
