अन्तर्जाले चलच्चित्रम् – द्रोहकार्यम् आरब्धृभ्य: (Backstabbing for Beginners)

ह्यः मम सहोदरः उपरिलिखितम् चलच्चित्रम् पश्य इति कथितवान् । तस्य उद्देशः एतत् अद्भुतम् चलच्चित्रम् अस्ति इति । यत्किमपि सः सूचयति तत् प्रायः उत्ततम् एव । ततः विश्वासेन मया अङ्गीकृतम् ।

रात्रिभोजनं समाप्य शयनात् पूर्वं मया द्रष्टुम् आरब्धं । प्रप्रथम् चलच्चित्रस्य अवधिः परीक्षिता । यदि दीर्घकालम् आवश्यकं चेत् अन्यस्मिन् समये द्रक्ष्यामि इति चिन्तितम् । केवलं सार्धैकहोराः आसीत् । ततः प्रकोष्ठम् अन्धकारमयं कृत्वा सिद्धः अभवम् ।

कथासारः – एकः चतुर्विंशतिः वयस्कः युवकः उत्तमासेवाभावेन लोकहितं दीनजनहितं च कर्तुं वित्तकोषकार्यात् निर्गम्य एकस्मिन् अन्तर्राष्ट्रीयसंस्थायां कार्यं कर्तुं आरम्भं करोति । आहारार्थं तैलम् इति योजना इराक् देशे प्रचलति स्म । तस्याः परीक्षणं कृत्वा उपाधिकारिभ्यः योजनां अग्रे अपि चालयितुम् अनुमतिं प्राप्तव्यम् आसीत् । सः शीघ्रं एव जानाति यत् योजानायां अत्यधिकलोपाः भ्राष्टाचाराः सन्ति इति । अपि च अनेकदेशानां नेतारः राष्ट्रीयवणिजः च सहभागिनः आसन् । एतं प्रमादकरं भ्राष्टाचारं सम्मुखीकर्तुं सिद्धः भवति । दुष्टजनेभ्यः मरणसूचकानि आप्नोति । रात्रौ रिपवः तं ताडयति मारयति च अपि । परन्तु तस्य सन्मित्राणि सत्यमार्गपरिपालनार्थम् प्रोत्साह कुर्वन्ति । सम्भवः परिणामः चदपि सः धैर्येण आचरति ।

तस्य धैर्यं वीर्यं श्लाघनीयं खलु । हृदयानि प्रेरयन्ति । मया मण्डूकोपनिषद्वाक्यं स्मृतं सत्यमेव जयति नानृतम् इति । अल्पवयस्कः चेदपि आत्मविश्वासेन धर्ममार्गे अचलत् । लोकहिताय स्वजीवनत्यागं कर्तुम् अपि सिद्धः आसीत् । धैर्येण सर्वान् विषयान् Wall Street पत्रिकायै ददाति । ततः दीर्ग्घकालं परिशीलनं चलति । अन्ते सः जयति, अपि च धर्मस्य जयं भवति । सः तु साधुः पुरुषः ।

स्वभावं न जहात्येव साधुः आपद्गतोऽपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥

निश्चयेन एतत् चलच्चित्रं पश्य । प्रोत्साहं आप्नुयाः ।

चित्रस्य मूलस्थानं – https://images.app.goo.gl/CeW2e4sXjWPhQtBT7

1 Comment

  1. तव वृत्तान्तम् पठित्वा, अहम् एतत् चलचित्रं द्रष्टुम् अतीव उद्यतोऽस्मि। तव अनुवादम् संस्कृतभाषायाः सौन्दर्यम् प्रकाशयति। आङ्ग्लभाषायाम् तत् साररहितम् भवेत्, मन्ये।

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s