यथा अस्माकं दृष्टिः तथा अस्माकं जीवनं प्रचलति । यदि कठिनाः विघ्नाः इति मन्यन्ते तर्हि दुःखमयं जीवनं भवति । नोचेत् तैव प्रगत्यार्थं नूतनावसराः भवन्ति ।
गच्छन्पिपीलिको याति योजनानां शतान्यपि । अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥
कार्येषु निमग्नाः पिपीलिकाः शतयोजनानि अतिदूरम् अपि गन्तुं शक्नुवन्ति । वयम् लघूनि भूतानि इति न भावयन्ति । तेषु गमनसामर्थ्यं आधारीकृत्य अग्रे गच्छन्ति । परन्तु वैनतेयः गरुडः आकाशे उन्नतस्थाने अपि उड्डयनं कर्तुं अर्हति चेदपि यदि वृक्षोपरि उपविश्य असमर्थः इति मन्यते तर्हि अल्पदूरम् अपि न गच्छति । साफल्यं प्रयत्नेन एव ।
नेत्राभ्यां प्रपञ्चं दृश्यते । दर्शने एव न प्रपञ्चं । यतः नेत्रयोः सीमा भवति । अतिदूरातिसमीपस्थवस्तूनि च न पश्यति । यन्त्राणाम् आवश्यकं भवति । यन्त्रेण अन्तरिक्षं अतिसमीपस्थभूतानि च द्रष्टुं अर्हति । यानि नेत्राभ्यां यन्त्रैः च अपि द्रष्टुं असाध्यं तानि ज्ञानचक्षुषा दर्शनं निश्चयेन भवति । ज्ञानं पदार्थस्य सम्पूर्णस्वभावं दर्शयति न केवलं बाह्यरूपं ।
न काष्ठे विद्यते देवो न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्मात् भावो हि कारणं ॥
देवः भावप्रियः न तु बाह्यप्रियः । देवः विग्रहे मूर्तौ वृक्षे वा अस्ति वा ? यदि सः अस्ति तर्हि तान् विभज्य दर्शनं भवति वा ? न न यथा सः अप्रमेयः अर्थात् इन्द्रियैः तं अवगन्तुं न भवति । परन्तु विभाजनं विना अपि ज्ञानिना तस्य दर्शनं भवति । कथं ? न यन्त्रेण ज्ञानेनैव भावेनैव भवति ।
अद्यतनकार्यं श्वः श्वस्तनकार्यं परश्वः करोमि इति चिन्तनम् तु मूढैः एव । को वा जानाति श्वः कः भविष्यति इति । इदानीं धनसम्पादनं कामपूराणि कार्याणि च एव समाजसेवां दैवचिन्तनं च वृद्धत्वे इति चिन्तनं ह मूर्खाणां । कालं अनवरतं क्षयति ।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्यां पुनर्महीं । एतत् सर्वं पुनर्लभ्यं न कालं पुनः पुनः ॥
धनं मित्रं भार्यां महीं स्थलं पुनः प्राप्तुम् अर्हति । परन्तु कालस्य पुनर्प्राप्तिः न भवति । कालः न तिष्ठति । उत्तमाः लक्ष्यं आश्रित्य जीवनं व्यवहरन्ति । अद्यतन अद्यैव कुर्वन्ति । ते कालास्य महत्वं प्रामुख्यं च जानन्ति ।