अद्य आरभ्य मम गुरोः वाचः लिखामि ।
गुरुः १९८४ तमे वर्षे षड्त्रिम्शत्सु भाषणेषु भगवद्गीतायाः विषयान् स्पष्टीकृतवान् । तान् श्रुत्वा मूलश्लोकानाम् अध्ययनं कृत्वा च कांश्चन मुख्याम्शान् सङ्क्षेपरूपेण लेखितुम् यते ।
प्रथमे भाषणे – ०२ आगस्त् १९८४ (Source)
- भगवद्गीता किं बोधयति ? कर्मयोगः इति केचन भक्तियोगः इति अन्येभ्यः ज्ञानयोगः इति अपरजनेभ्यः मन्यन्ते । प्रत्येकस्य दृष्टिः सत्यं एव । परन्तु यथा पुरुषस्य अवगमनारथं शिरस्तः पादपर्यन्तं परिशीलनं करणीयं तथैव भगवद्गीतायाः अपि । प्रथमश्लोके प्रथमपदः धर्मः अस्ति (धर्मक्षेत्रे कुरुक्षेत्रे………)।अन्तिमश्लोके अन्तिमपदः मम इति (……ध्रुवा नीतिर्मतिर्मम।) । ततः भगवद्गीता मम धर्मः कः इति बोधयति ।
- अनेकानि लोके ज्ञानानि सन्ति । लौकिकज्ञानं, व्यवहारज्ञानं, वृत्तिज्ञानं च सन्ति । एते लोके जीवनार्थम् एव । परन्तु सर्वतत्वज्ञानार्थं आत्मज्ञानं । आत्मज्ञानं अहं कः इति सूचयति ।
- यथा पुष्पात् अपक्वफलम् अपक्वफलात् पक्वफलम् भवति तथैव कर्ममार्गः भक्तिं नयति भक्तिः ज्ञानदर्शनम् आपयति । त्रिषु मार्गेषु एकत्वं अवगन्तव्यं ।
- मम देहः मम शिरः मम हस्तौ इति सर्वे सामान्यतः वदन्ति । अत्र ममत्वं अङ्गं च मध्ये भेदः अस्ति । मम देहः इति वदति । देहः कस्यः । तम् ज्ञातुं प्रयत्नं करोतु । पुनः पुनः स्वपृष्ट्वा परीक्षणं करोतु ।
- आत्मज्ञानार्थं चित्तस्य शुद्धिः आवश्यकम् । चित्तशुद्धिं प्राप्तुम् कर्माणि । कीदृशानि कर्माणि ? सत्कर्माणि ।
- कस्मात् चित्तशुद्धिः ? मोहात् अहङ्कारात् च ।
- मोहस्य क्षयं एव मोहक्षयं
- अष्टादशेषु अध्यायेषु द्वादशाध्यायः सर्वश्रेष्ठः । ततध्यायः भक्तियोगस्य अस्ति ।
- भक्तिः का ? निर्मलं निस्स्वार्थं प्रेमा भावं।
- रामकृष्णः निरक्षरः आसीत् । प्रतिमासं केवलं पञ्चरूप्यकेभ्यः जीवति स्म । देव्यां अपारप्रेमा आसीत् । निरन्तरं देवार्चनं करोति स्म । इदनीम् अनेकेषु स्थलेषु रामकृष्णमठाः सन्ति । निरक्षरः चेदपि लोके अत्युन्नतस्थानं प्राप्तवान् । कथं ? तस्य निर्मलभक्त्या ।
- सगुणभक्तितः निर्गुणाराधनस्य प्राप्तिः भवेत् ।
- भगवद्गीतायाः श्लोकान् पठित्वा कण्ठस्थी करोतु स्वाध्ययनं कृत्वा अवगच्छन्तु । अवगत्वा नित्यजीवने आचरतु ।
Loved to read swamy’s teachings in Sanskrit.
LikeLiked by 1 person