भित्तिषु यवनिकासु च

ग्रीष्मकालानन्तरं वर्षाकालं आगच्छति । तथा मशकाः मक्षिकाः अन्यकीटाः जालकारकाः च गृहे प्रविशन्ति । एतैः किमपि चिन्ता नास्ति । परन्तु यदि गृहगोधिकाः आगच्छन्ति चेत् गृहे सर्वे कम्पन्ते । मम दृष्ट्या ताः सहायकाः एव । यथा ताः अन्यकीटान् खादित्वा कीटरहितं गृहं करोति ।

गृहगोधिकाः मानवहितकारीणि इति मन्ये । परन्तु गृहे कोऽपि न अङ्गीकरोति । तेषां दृष्ट्या ताः रिपवः हानिकराः एव । सर्वे माम् एव अपेक्षन्ते तस्य निष्कासनार्थं । मया यस्मिन्नपि कर्यमग्नं भवति चेदपि तम् त्यक्त्वा तस्याः समीपं शीघ्रं गन्तव्यं । यदि अहं त्वरिता न गच्छामि तर्हि मह्यं कुप्यन्ति गृहजनाः । गृहे अनेकवारं गृहगोधिकायाः अशान्तिः आविर्भवति ।

अत्र अहं मुख्यविषयं पृच्छामि । सुखं आनन्दं कुत्र भवति ? वस्तुषु वा मनस्सु ? गृहगोधिकया किं कुर्यात् । सा तु स्वधर्मानुसारं जीवति ।

यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् ।
समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ (९.१५.१५)

मन एव कारणं बन्धमोक्षयोः इति सुप्रसिद्धं वाक्यं । उपरि लिखितः श्लोकः भागवतात् स्पष्टिकरोति यत भावानुभवानि मनसि जायन्ते न तु वस्तुनि इति ।

अलं शास्त्राध्ययनेन ।

इदानीं वृत्तान्ते पुनः प्रविशामः ।

द्रववस्त्रेण मया गृहीत्वा सा निष्कासनीया च अतिदूरेस्थापनीया । तस्याः मरणं न भवेत् । आगामिदिनेषु मशकानां जालकारकानां सङ्ख्या वर्धते । कीटनाशकान् विद्युत्कीटनाशकान् च उप्युज्य अनेककीटान् मारयन्ति गृहे । उचितं वा ?

सृष्टिकर्ता लोके एकभूतस्य आहारार्थं अन्यभूतं सज्जीकृतवान् । एषः आहारक्रमः सर्वदा भवति च भूतानां अधिकवर्धनं स्थगयति । वयं तस्मिन् मध्ये आगत्य किमर्थं विघ्नकराः भवेयुः ।

भवान् वदतु । गृहगोधिकया कुत्र निवासनीयं ? तस्याः नाम एव सूचयति । गृहं एव तस्याः निवासक्षेत्रं अस्ति । तर्हि ताः गृहात् बहिः जीवितुं शक्नुवन्ति वा ?

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s