भगवद्गीतायां श्रीकृष्णः वदति – (प्रमाणयति अपि)
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ९.२२ ॥

अपि च भारतीयजीवनरक्षासंस्था वदति – (आकर्षयति च)
योगक्षेमं वहाम्यहम् ।
यस्मिन् विश्वासः अधिकः तस्मै प्रयत्नः धनव्ययः चापि ।
परन्तु कस्मिन् जनैः अधिकं विश्वस्यते ? एतस्य निरूपणं भगवता एव खलु।