काकचेष्टो बकध्यानः श्वाननिद्रस्तथैव च । अल्पाहारी गृहत्यागी विद्यार्थी पञ्चलक्षणः ॥
पुरा विद्याभ्यासं गुरुकुले बभूव । छात्राः गृहात् निर्गम्य विद्याभ्यासस्य समाप्तं पर्यन्तं तत्रै तस्थुः। गुरुकुलपर्यावरणं लाभकरं अद्ययनार्थं । तस्मात् पठनं ग्रहणं अवगमनं सरलतया अबाधेन एव ।
इतःपूर्वं द्विवर्षात् पूर्वं विद्याभ्यासं विद्यालये अभवत् । प्रतिदिनं छात्राः विद्यालयं गत्वा गृहं प्रत्यागच्छन्ति । केचन छात्राः छात्रावासे निवासं कृत्वा ग्रीष्मकाले एव विरामसमये गृहं आगतवन्तः । अद्यापकाः अपि पाठयितुम् विद्यालयं गच्छन् आसन् । विद्यालये यत् पर्यावरणं अवसरं तत् अध्यापकाः प्राध्यापकाः अधिकारिणः च सज्जीकुर्वन् आसन् । गृहे गृहकार्यं अभवत् ।
परन्तु अद्यतनकाले विद्यमानात् कोरोनारोगात् विद्याभ्यासं गृहे एव भवति । आचार्याः अपि स्वगृहेभ्यः एव पाठयति । शिक्षणं प्रवचनं च यन्त्रैः अन्तर्जाले भवति । छात्रैः एव तेषां गृहे पर्यावरणं यदावश्यकं सज्जीकरणीयं।
यद्यपि एतानि परिवर्तनानि भवेयुः तथापि छात्राणां अवसरलक्षणानि तानि एव ।