साधुतायाः आविष्करणं #१९ – नूतनप्रयत्नेन पाठयति ।

Learn Samskritam इति Youtube मध्ये नूतना प्रणाली अस्ति । प्रज्वलमहोदयः अस्मिन् सम्वत्सरे एप्रिल् मासे आरम्भं कृतवान् । अद्य पर्यन्तं सः ३६ लघु चलच्चित्राणि सृष्ट्वा स्थापितवान् ।

आह्लादेन आनन्देन सरलतया च पश्यन् अध्ययनं कर्तुं शक्यते । प्रत्येकस्य चलच्चित्रस्य अवधिः लघुः एव । निश्चयेन एतानि दृष्ट्वा येनकेनापि संस्कृतभाषाप्रियाः भवेयुः ।

उत्साहो बलवान् आर्य, नास्त्युत्साहात्परं बलम् |
सोतसाहस्य तु लोकेषु, न किंचिदपि दुर्लभम् ||

तस्य उत्साहं निश्चयेन प्रेरयति । पुरुषः उत्साहेन किमपि साधयितुम् शक्नोति । एकलव्यः साक्षात् गुरूपदेशं विना अपि धनुर्विद्यायां असमानः भूतवान् ।

सः Telegram मध्ये गणं अपि सज्जीकृतवान् । ये संस्कृतपठनं इच्छन्ति ते प्रवेशं कर्तुम् अर्हन्ति । https://t.me/IamSanskritStudent अत्र प्रतिदिनं अष्टवादने सायंकाले संस्कृते वार्तालापं चलति । तथा भाषाभ्यासं अपि भवति ।

अस्माभिः सर्वैः एषः उत्तमः महोद्यमः प्रयासः प्रसारणीयः ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s