को अतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशस्तु विदुषां कः परः प्रियवादिनाम् ॥
समर्थानां अतिभारः कः अस्ति ? व्यवसायिनां दूरं किं अस्ति ? पण्डितानां विदुषां कः विदेशः अस्ति ? प्रियवादिनां परः कः अस्ति ?
समर्थः आत्मविश्वासी तदर्थं किमपि अतिभारं न भवति । व्यवसायी स्वकर्मणा स्वप्रयत्नेन च क्लिष्टकार्याणि साधयति । पण्डितस्य बलं ज्ञानं । राजा स्वराज्ये पूज्यते विद्वान् सर्वत्र पूज्यते इति अन्यसुभाषितं कथयति । प्रियवादी तत्वज्ञानं आश्रित्य सम्भाषणं करोति न तु परान् आनन्दयितुं । ते जानन्ति सर्वं केशवं प्रतिगच्छति इति । तस्य दृष्ट्या मदीयः परः इति भेदः नास्ति । सः समानदृष्ट्या आचरति ।
लोके बहवः समर्थाः व्ययसायिनः पण्डिताः प्रियवादिनः च सन्ति । जनाः अन्यान् विस्मरन्ति परन्तु एतान् हृदये मनसि सदैव स्मरन्ति । एते मार्गदर्शकाः भारतदेशे अनेकेषु स्थलेषु वर्तन्ते । परन्तु अद्यतनवार्तापत्रिकायाः न प्राप्यते । सामान्यतः शुभवार्ताः विरलाः।
अमेरिकाकेनडादेशयोः संस्कृतभारत्याः कार्यकर्तारः छात्राः च Youtube मध्ये प्रतिमासं शुभवार्ताः २-३ द्वित्रिचलच्चित्राणि स्थापयन्ति। एतैः दर्शनैः अस्माकं ज्ञानार्जनं आत्मोद्धारकं च भवेत् । एताः शुभवार्ताः अपूर्वं मनुष्यत्वं प्रकटीकुर्वन्ति ।
Playlist: https://youtube.com/playlist?list=PLofrqGxIuL6RJAXDLX2Y35js8MNJYH-GT
षड्त्रिम्शत्तमं शुभवार्ताचलच्चित्रम् –