पापान्निवारयति योजयते हिताय गुह्यं च गूहति गुणान्प्रकटी करोति । आपद्गतं न च जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥
अत्र सुभाषितकारः कविः सन्मित्रस्य लक्षणानि सूचयति ।
पापात् निवारयति, हिताय योजयति, गुह्यं च गूहति, गुणान् प्रकटी करोति, आपद्-गतं न च जहाति (त्यजति), काले ददाति, सन्मित्रलक्षणम् इदं प्रवदन्ति सन्तः साधुपुरुषाः ।
मम चिन्तनानि
जीवने अनेकानि मित्राणि आयान्ति प्रयान्ति । अनेकवारं बाल्यकालमित्राणि यौवनकाले न भवन्ति । तारुण्यकालमित्राणि भिन्नानि एव । जरापर्यन्तं ये तिष्ठन्ति ते अन्याः एव । अनेकाः नराः सन्दर्भानाश्रित्य मित्रतां स्वीकुर्वन्ति । इह लोके तु मित्रत्वं सौख्यं परन्तु परलोके मित्रत्वेन स्वर्गनरकयोः कः लाभः । स्वार्थरहितमित्रत्वं विरलं । केवलं मैत्रीभावस्य प्रकटनेन मित्रता न भवति । रचयिता स्पष्टतया सन्मित्रस्य लक्षणानि विनिर्दिशति।
मित्रम् इति पदे किञ्चन श्रेष्ठत्वं वर्तते । सन्मित्रं मित्रः इव । रविः स्वयमातपे लोकस्य हितं करोति । सन्मित्रं नदीव । मलिनानि स्वीकृत्य अस्मान् शुद्धानि करोति । एतत्प्रकारं श्रेष्ठमित्रत्वं गुरौ गुरूणाङ्गुरौ च एव वर्तते ।
गुरुणा परमगुरुणा च सह कथं मित्रत्वं भवति । किं साधनं ।
नवविधिभक्तिमार्ग: प्रतिपादयति । श्रवणं कीर्तनं स्मरणं पादसेवनं वन्दनं अर्चनं दास्यं स्नेहं आत्मनिवेदनं चेति। एतस्मिन् अष्टमं साख्यं।आत्मसमर्पणात् पूर्वं साख्यं । साख्यभावः एकत्वं सायुज्यं प्रतिसङ्गमयति ।
उदाहरणार्थं अर्जुन-कृष्णयोः मध्ये यः सम्बन्धः सः साख्यं ।
अत्र दोषौ वर्तेते ।
१. मया आत्मानिवेदनम् इति लिखितम् । परन्तु तत् पदं आत्मनिवेदनम् (आत्मा न आत्म एव)
२. आत्मासमर्पणात् अशुद्धं पदम् । शुद्धं पदं आत्मसमर्पणात् । (आत्मा न आत्म एव)
किमर्थम् ?
समासनियमः – पूर्वपदं नकारन्तं चेत् नकारस्य लोपः ।
मया इदानीम् एव ज्ञातम् । क्षम्यताम् ।
LikeLike