भवतः कति भ्रातरः भगिन्यः च सन्ति इति मया ज्ञातुं शक्यते । कथम् । साक्षात् पश्यामः । परन्तु भवतः साहाय्यं आवश्यकम् । यथा क्रमः निर्दिश्यते तथा करोतु ।
१. अथ विना ज्ञानं भ्रातृभगिनीसङ्ख्याज्ञानप्राप्त्युपायः उपदिश्यते ।
२. भ्रातॄणां सङ्ख्यास्मरणम् । – भवतः कति भ्रातरः ? तां सङ्ख्यां मनसि स्थापयतु । (उदा ३)
३. तत्र अङ्कानां द्वयेन वर्धनम् । – तां सङ्ख्यां द्वयेन वर्धयतु । (उदा ३ + २ = ५ )
४. पुनः द्विसङ्ख्यातः गुणाकारः । – पुनः द्वितीयसोपाने या सङ्ख्या लब्धा ताम् द्विगुणितां करोतु । (उदा ५ x २ = १०)
५. योगे एकस्य वर्धनम् । – इदानीं प्राप्तां सङ्ख्यां एकेन वर्धनं करोतु । (उदा १० + १ = ११)
६. ततः पञ्चमसङ्ख्यातः गुणनम् । – अधुना तां पञ्चमसङ्ख्यातः गुणयतु । (उदा ११ x ५ = ५५)
७. तस्यां भगिनिसङ्ख्यायाः योगः । – या सङ्ख्या मनसि इदानीं वर्तते तास्यां भवतः भगिनीनां या सङ्ख्या भवेत् सा योजनीया । (उदा ५५ + २ = ५७)
८. तस्यां पञ्चविंशतिसङ्ख्यायाः निवृत्तिः । – इदानीं व्यवकलनम् । अस्यां सङ्ख्यायां पञ्चविंशतिः सङ्ख्यायाः निष्कासनीयम् । (उदा ५७ – २५ = ३२)
९. एकक-दशकयुक्तसङ्ख्याफलम् । – सप्तमसोपाने अविशिष्टां सङ्ख्यां अत्तरं सूचयति । (उदा ३२)
१०. तत्र वामतः प्रथमाङ्कः भ्रातॄणां सङ्ख्याज्ञापकः । द्वितीयाङ्कः भगिनीनां सङ्ख्याज्ञापकः । – अस्यां सङ्ख्यायां दशकं ३ अस्ति एककानि २ अस्ति । दशकं अङ्कः भ्रातृसङ्ख्यासूचकः एककानि अङ्कः भगिनीसङ्ख्यासूचकः (उदा भवतः ३ भ्रातरः २ भगिन्यः च)
अहो चमत्कारः खलु ।
मूलम् – सम्भाषणसन्देशमासपत्रिकायाः स्वीकृतः । विंशतितमः पुटः । रचयिता – प्रा. कमलेशकुमारचोकसी । (https://sambhashanasandesha.in/article/pdf/2017/08/#page=20&search=)
कानिचन गणितपारिभाषिकपदानि |
१. Addition – योगः Add योजयतु
२. Subtraction – व्यवकलनम् Subtract व्यवकलयतु
३. Total – सम्पूर्णं मिलित्वा
४. Measurement – परिमाणम्