सदयं हृदयं यस्य भाषितं सत्यभूषितम् । कायः परहिते यस्य कलिस्तस्य करोति किम् ॥
यस्य दयापूर्वकं सदयं हृदयं, सत्य-भूषितं वाक् भाषितं, देहः कायः परहिते तस्य कलिः किम् करोति ।
मम चिन्तनानि
जनाः कर्माणि मनसा वचसा कायेन कुर्वन्ति । सर्वकर्मणां प्रतिफलानि निश्चयेन भवन्ति। यदि अस्माकं कर्माणि सत्कर्माणि तर्हि प्रतिफलानि सत्फलानि एव । एषः प्रकृतिनियमः । सामन्यतः कलेः परिणामाः दुःसन्दर्भाः इति मन्यन्ते । परन्तु यथा कर्माणि तथा प्रतिफलानि ।अद्यतनानि कर्माणि बीजानि इव । आगामिनः परिणामाः फलानि इव । कर्मफलं प्रतिध्वनिः इव ।
परन्तु सर्वेषु मनस्सु सज्जनानां कृते किमर्थं कठिनपरिणामाः भवन्ति इति प्रश्नः अनेकवारं मनोभूमौ उत्पद्यते ।
आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदिः इति ऋग्वेदीयसंहितायां प्रथममण्डले प्रथमाष्टके एकोननवतितमे सूक्ते वर्तते । अर्थात् सर्वदिग्भ्यः सच्चिन्तनानि सत्प्रेरणाः आगच्छेयुः ।
तथा अधः स्थापितात् दृश्यात् बोधनं स्वीकुर्युः ।