मम बाल्यकाले वर्णमालायाः अध्ययनं A for Apple, Ball for Ball, C for Cat इति आरम्भः जातः । अहो मम दौर्भाग्यं आसीत् । मम एव न भरतवर्षे अनेकानां बालबालिकानां अपि एवम् एव ।
मम संस्कृतशिक्षणं रामशब्दरूपेण आरंभम् अभवत् । अनेकवाराम् रामः रामौ रामाः ………. हे राम हे रामौ हे रामाः इति कण्ठस्थीकरणं चलत् आसीत् । तर्हि कथं भाषायां आसक्तिः भवेत् ।
आङ्ग्लभाषां आङ्ग्लभाषया पाठयति । हिन्दीभाषा हिन्दीभाषया कन्नडभाषा कन्नडभाषया च इति । तर्हि किमर्थं संस्कृतं आङ्ग्लभाषया वा हिन्दीभाषया वा कन्नडभाषया अध्यापयति । संस्कृतम् अपि संस्कृतेन एव पाठनीयम् ।
मम गृहे सर्वे बाल्यकाले विद्यालये संस्कृतं अधीतवन्तः परन्तु इदानीं पठनं सम्भाषणं च कर्तुम् असिद्धाः सन्ति । कन्नडभाषायां हिन्दीभाषायां तथा नास्ति । किमर्थं संस्कृतमध्यापनं पृथक् अस्ति ।
अलं भूतकालचिन्तनम् । अद्यतनछात्राः सौभाग्यवन्तः ।
ते अ – अश्वः आ – आम्रं इ – इन्द्रः ई – ईशः इति गानरूपेण वर्णमालां अधीतुम् अर्हन्ति ।
कथम् जानाति वा ।
अत्र श्रुणोतु
अत्र पठतु
अ अ अश्वः आ आम्रम् । अश्वः सबलः आम्रं मधुरम् ।
इ इ इन्द्रः ई ईशः । रक्षति इन्द्रः रक्षति ईशः ।
उ उ उष्ट्रः ऊ ऊर्णम् । मन्द उष्ट्रः न चलति तूर्णम् ।
ऋ ऋ ऋषिः ऋषिं नमामि । ॠ इति पुस्तके पठामि ।
ए एकम् ऐ ऐक्यम् । एकं सद् इति ऋषिवर-वाक्यम् ।
ओ ओष्ठः औ और्णम् । अङ्गुलीयकं मम सौवर्णम् ।
कं कंसः हं हंसः । पश्यायं नूतनावतंसः ।