भवन्तः सर्वे रामकथां जानन्ति खिल । सर्वे सङ्क्षेपरूपेण वक्तुम् अपि अर्हन्ति । परन्तु अनेकाः निगूढविषयाः रामायणे अन्तर्भवन्ति ये रामायणपारायणेन एव ज्ञातुं शक्यन्ते ।
आदिकविना महर्षिवाल्मीकिना चतुर्विंशतिसहस्रश्लोकात्मकरामायणं सप्तसु काण्डेषु विरचितं (इति सामान्यतः मन्यन्ते) । सर्वेषां काण्डानाम् अपेक्षया अयोध्याकाण्डः बृहत्काण्डः अस्ति । तस्मात् काण्डात् श्लोकद्वयं स्थापयितुम् इच्छामि ।
विमाता कैकेयी रामं वरद्वयं निवेदयति । तस्य प्रत्त्योत्तरम् अधः श्लोकेषु वर्तते ।
तदप्रियमित्रध्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ॥ २.१९.१ ॥
तत् अप्रियम् मरण-उपमम् वचनं श्रुत्वा अमित्रघ्नः रामः न विव्यथे च कैकेयीम् अब्रवीत् ।
एवमस्तु गमिष्यामि वनं वस्तुमहं त्त्वितः । जटाजिनधरो राज्ञः प्रतिज्ञामनुपालयन् ॥ २.१९.२ ॥ एवम् अस्तु अहं राज्ञः प्रतिज्ञानुपालयन् जटाजिनधरः वनं वस्तुं तु इतः गमिष्यामि ।
मूलं – https://www.valmiki.iitk.ac.in/sloka?field_kanda_tid=2&language=dv&field_sarga_value=19
श्रीरामः सरलतया अस्तु इति केवलम् एकेन पदेन निस्सङ्कोचेन किञ्चिदपि क्लिष्टाभावं विना आज्ञां अङ्गीकृतवान् स्वीकृतवान् च । एवं प्रदर्शयति रामस्य अनेके उन्नताः असमानाः गुणाः। राज्यं त्यक्तव्यं सर्वं त्यक्त्वा वनं गन्तव्यं तथापि किञ्चदपि न विव्यथे । अल्पेन कष्टेन अपि लोके जनाः कम्पन्ते । लघु सङ्कटात् बाधायाः चापि जनाः बिभ्यति । परन्तु रामः धीरस्सन् शान्ततया पितुः आज्ञां श्रद्धया पालयितुं सिद्धः बभूव । किमर्थं कस्मात् कारणात् इत्यादि प्रतिप्रश्नान् न पप्रच्छ तस्य मनसि अपि न उत्पेदिरे। तदर्थं रामो विग्रहवान् धर्मः इति रामं विख्याति ।
शतावधानी आर्- गणेशमहोदयः गतसप्ताहे मङ्गलवासरे संस्कृतभारत्या आयोजिते कार्यक्रमे एतस्य सन्दर्भस्य वैशिष्ट्यं वर्णयति । (कार्यक्रमं द्रष्टुम् – https://youtu.be/ozeOfy_25mI )
इमम् सन्दर्भं दृश्यरूपेण अपि द्रष्टुं शक्यते ।
निश्चयेन एतस्य सन्दर्भस्य 21-Notes इति Youtube मध्ये यानि प्रदर्शनानि सन्ति तानि सर्वैः दर्शनीयानि । एतेषु दृश्यकेषु मुख्यमूलश्लोकैः सह प्रदर्शनं भवति । बहु उत्तमप्रयासः अस्ति ।
एकेन सुभाषितेन मम लेखनं समापयामि ।
नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
रामस्य अभिषेचनं विना अपि सः एव राजा सर्वत्र सर्वकालेषु सर्वदा ।
॥ हरिः ॐ ॥