सुभाषितम् – २७/०७/२०२१

धर्माख्यानेश्मशाने च रोगिणां या मतिर्भवेत् ।
सा सर्वदैव तिष्ठेच्चेत् को न मुच्येत बन्धनात् ॥

धर्म-आख्याने श्माशाने च रोगिणां या मतिः भवेत् । सा सर्वदा एव तिष्ठेत् चेत् कः न मुच्येत बन्धनात् ॥

मम चिन्तनानि

का मतिः श्मशाने धर्माख्याने रोगाणां च भवति । विरक्ता मतिः ।

एवं सर्वेषाम् अनुभवं खलु । आध्यात्मिकपारायणात् भाषणात् पश्चात् वयं विरागभावम् अनुभवेम । यथा देशप्रेरकात्मकस्य चलच्चित्रस्य दर्शनानन्तरं अस्माकं प्रत्येकं रोम्नः देशभक्तिः उत्पद्यते ।

श्मशाने शवानां दर्शनेन मनसि लोकाय विरक्तिः प्रादुर्भवति । कोरोणाव्याधिना अनेकेषु कुटुम्बेषु जनाः मृताः पीडिताः च। किम् एतत् जीवनम् इति भावः सर्वेषां मनस्सु आगच्छति किल ।

परन्तु एवं मनसः स्थितिः क्षणाभ्यन्तरे निर्गच्छति । तात्कालिकमनोभाव: झटिति पुनः लोके लौकिकविषयेषु निमग्न: भवति ।

विरागस्य प्राधान्यं किम् अस्ति ।

तत्वबोधे प्रकरणग्रन्थे जगद्गुरुणा आदिशङ्कराचार्येण उक्तम् । मोक्षार्थं साधनचतुष्टयम् आवश्यकम् । एतस्मिन् विरागः अन्तर्भवति ।

साधनचतुष्टयं किम् । नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसंपत्तिः । मुमुक्षुत्वं चेति ।

अग्रे विरागः कः इति अपि स्पष्टीकरोति ।

विरागः कः । इहस्वर्गभोगेषु इच्छाराहित्यम् ।

तदर्थं विरागस्य आवश्यकता । परन्तु सुखसमयेषु विरागः भावः न उत्पद्यते । सामन्यतः कठिनकालेषु एव भगवच्चिन्तनं सरलतया भवति । सुखसमयेषु वयम् आनन्दस्य अनुभवन्तः तं परमेश्वरं विस्मरामः । प्रायः एषः मनसः स्वभावः । तदर्थं कुन्तीदेवी श्रीकृष्णं जीवने कठिनानि भवेयुः इति प्रार्थितवती येन तस्याः कृष्णस्य नित्यस्मरणं भवेत् इति ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s