संस्कृते अपारज्ञानं विद्यते । संस्कृतसाहित्यस्य परिमितिः एव न वर्तते । लौकिकव्यवहारार्थम् आत्मनो मोक्षार्थं वा सर्वज्ञानानि आश्रयति एषा दैवभाषा ।
परन्तु नित्यजीवने ज्ञानार्जनार्थं आव्श्यकः समयः नास्ति । सर्वे जनाः अनेकेषु कार्येषु व्यस्ताः भवन्ति । तर्हि ज्ञानार्जनं कथम् । लोके अनेके उत्तमपुरुषाः पठनार्थम् अध्ययनार्थं च निश्चयेन पृथक् समयं स्थापयन्ति । यद्यपि सर्वेभ्यः ईदृशं सौलभ्यं न वर्तते तथापि सुलभतया पञ्चनिमिषाणि अध्ययनार्थं दातुं शक्यते स्यात् ।
Madras Sanskrit College संस्थया सृष्टा योजना प्रतिदिनं एकस्य नूतनस्य श्लोकस्य परिचयं कृत्वा पाठयति। जङ्गमदूरवाण्यां स्थापयितुम् शक्यते । वेदेभ्यः इतिहासेभ्यः पुराणेभ्यः अन्यरचनाभ्यः च श्लोकाः स्वीकृत्य आङ्ग्लभाषायाम् अनुवादेन सह स्थापिताः सन्ति ।
अन्नदानं परं दानं विद्यादानमतः परम् । अन्नेन क्षणिका तृप्तिः यवज्जीवनं च विद्यया ॥



यन्त्रे अवतारयितुम् – https://apps.apple.com/in/app/shloka-a-day/id1561315325, https://play.google.com/store/apps/details?id=com.orpheusdroid.msc.shlokaaday.android