वयम् के । अस्माकं पूर्वजाः के । अस्माकं बलं किम् । अस्माकं श्रेष्ठता का । अस्माकम् अपूर्वता का ।
वयम् भरतीयाः । अहं भारतीयः ।
वयम् उन्नतौत्तमापूर्वसर्वश्रेष्ठभारतवासिनः । अस्माकं पूर्वजाः विश्वस्य मार्गदर्शकाः । अस्माकं बलं ज्ञानं विशालहृदयं च । वेदाः सर्वज्ञानानि आश्रयन्ति । वेदाः सर्वशास्त्राणां मूलं सन्ति । अस्माकं श्रेष्ठता अखण्डतासमानदृष्टिः । अस्माकं अपूर्वता अनेकतायाम् एकता ।
अभिमानेन वक्तव्यम् ।
अभिमानो धनं येषां चिरं जीवन्ति ते जनाः ।
अभिमानविहीनानां किं धनेन किमायुषा ॥
येषां धनम् अभिमानः अस्ति ते जनाः चिरं जीवन्ति । परन्तु अभिमानविहीनानां जनानां धनेन अपि किं प्रयोजनम् आयुषा अपि किं प्रयोजनम् ।
तदर्थं मानभग्नं कर्तुम् अनेके प्रयत्नाः चलन्ति विदेशीयैः देशीयैः अपि । उदाहरणार्थं निरूपयामि ।
http://ktbs.kar.nic.in/New/index.html#!/textbook इतः कर्नाटकविद्यार्थिनां कृते षष्टमकक्ष्याछात्राणां सामाजिकविज्ञानपुस्तकं प्राप्तुं शक्यते । तस्मिन् पुस्तके पञ्चमाध्यायः ‘The Culture of the Vedic Period’ इति अस्ति । एतस्मात् अध्यायात् कञ्चन भागं स्थापयामि ।

अस्माकम् वेदाः अपौरुषेयाः । अस्माकं पूर्वजाः वेदमन्त्रद्रष्टारः । परन्तु इदानीमपि कर्नाटकराज्ये छात्रेभ्यः किमपि अन्यबोधनं प्रचलति ।
वेदाः आर्याणां भारतप्रवेशेन सह आगतवन्तः इति बोधयन्ति विद्यालयेषु ।
यदि सर्वं बाह्यतः एव आगतवन्तः चेत् अस्माकं स्वकीयं किमपि नास्ति अस्माकं पूर्वजाः सर्वं अन्यदेशेभ्यः अन्यमतेभ्यः एव ज्ञातवन्तः इति छात्राः मन्यन्ते ।
अद्यापकाः छात्रान् किं बोधयन्ति इति वयम् जागरूकतया पश्येम ।