जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥
सत्सङ्गतिः धियः जाड्यं हरति वाचि सत्यं सिञ्चति मानोन्नतिं दिशति पापम् अपाकरोति चेतः प्रसादयति कीर्तिं दिक्षु तनोति च । कथय सत्सङ्गतिः पुंसाम् किं किं न करोति ।
मम चिन्तनानि
भवतः सङ्गः माम् वदतु अहं भवान् कः कीदृशः इति अहं वदामि इति मम गुरुणा उक्तम् । (Tell me your company and I will tell you what you are – Sathya Sai Baba)
कविना सत्सङ्गतेः प्राधान्यं वर्ण्यते । इतिहासे अनेकानि उदाहरणानि सन्ति ।

विभीषणः लङ्कायां निवसति स्म । सः रावणस्य सहोदरः । परन्तु रावणः इव नासीत् । यद्यपि राक्षसानां मध्ये निवसति स्म तथापि तस्य मनः सदैव श्रीरामे एव लीनम् आसीत् । अतः सः श्रीरामस्य आश्रयं प्राप्तवान् अपि अन्ते लङ्कायाः राजा अभवत् ।

नारदमहर्षेः वृत्तान्तं सर्वे जानन्ति किल । तस्य पूर्वजन्मनि बाल्यकाले यदवसरः तेन मात्रा सह प्राप्तः महर्षीणां सेवाभाग्यं तस्मात् कारणात् एव अग्रे तेन श्रीमहाविष्णोः सामीप्यं प्राप्तम् ।

दानवीरशूरकर्णः अपि दुस्सङ्गात् अन्ते पराजयते ।
श्री आदिशङ्कराचार्यः भजगोविन्दरचनायां वदति |
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वं । निर्मोहत्वे निश्चलतत्वं निश्चलतत्वे जीवन्मुक्तिः ।।
सत्सङ्गात् मुक्तिः अपि प्राप्यते । अपि नारदभक्तिसूत्रेषु एवं वर्तते ।
- तस्याः साधनानि गायन्ति आचार्याः ॥ ३४ ॥
- तत् तु विषयत्यागात् सङ्गत्यागात् च ॥ ३५ ॥
- महत् सङ्गः तु दुर्लभः अगम्यः अमोघः च ॥३९ ॥
- लभ्यते अपि तत् कृपया ॥ ४० ॥
- तस्मिन् तज्जने भेदाभावात् ॥ ४१ ॥
सतां सङ्गः सत्सङ्गः इति । सत् किम् अस्ति । तत्वबोधे जगद्गुरुः शङ्कराचार्यः सत् किम् इति आत्मनः वर्णने कथयति ।
आत्मा तर्हि कः । सच्चिदानन्दस्वरूपः ॥ सत् किम् । कालत्रयेऽपि तिष्ठतीति सत्॥ चित् किम् । ज्ञानस्वरूपः ॥ आनन्दः कः । सुखस्वरूपः ॥ एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ॥
यदि सत् परमात्मा एव तर्हि जीवने लोके सत्सङ्गं प्राप्तुं शक्यते वा । आम् यथा नारदमहर्षिणा एकचत्वारिंशत्त्मे सूत्रे उक्तम् ।
- तस्मिन् तज्जने भेदाभावात् ॥ ४१ ॥
भक्तौ भेदः न विद्यते । सः एव परमात्मा । भेदस्य अभावात् भक्तसङ्गः एव सत्सङ्गः ।
- तदेव साध्यतां तदेव साध्यताम् ॥ ४२ ॥
Image & Highlighted Text Sources
- Vibhishana & Hanuman – https://chinmayamission.co.za/yagna-talks-glory-surrender-april-2018/
- Narada & Sages – https://images.app.goo.gl/HmxD9xijqbfVfYri9
- Duryodhana & Karna – http://www.radiosai.org
- Narada Bhakti Sutras – Narada Bhakti Sutras by Swami Bhuteshananda published by Advaita Ashrama, Kolkata ISBN 978-81-7505-199-7
- Tatva Bodha – Sri Adi Shankaracharya’s Tatva Bodha – Commentary by Swami Tejomayananda published by Central Chinmaya Mission Trust ISBN 978-81-7597-561-3