सुभाषितम् – ३१/०७/२०२१

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥

नद्यः जलं अम्भः स्वयं न पिबन्ति । वृक्षाः फलानि स्वयं न खादन्ति । मेघाः पर्जन्यः वारिवाहाः सस्यं न खादन्ति अदन्ति । सतां सामर्थ्यानि विभूतयः परोपकाराय उपयुज्यन्ते न तु स्वार्थाय ।

मम चिन्तनानि

सुभाषितकारः विपश्चित् सृष्टौ निगूढविषयान् पश्यन् लोकान् जनान् बोधयति । समाजे वस्तुग्रहणेन आनन्दप्राप्तिः इति चिन्ता वर्तते । तदर्थम् अनवरतं पुरुषः वस्तुग्रहणे निमग्नः भवति । बाल्यकाले क्रीडनकानि यौवने यन्त्राणि तद्पश्चात् वाहनं गृहम् इत्यादि आजराम् एवं चलति । आनन्दस्य प्राप्तिः भवति किन्तु क्षणाभ्यन्तरे गच्छत्यपि ।

सृष्टौ अन्यभूतानां जीवनपद्धतिः भिन्ना । यावदावश्यकं तावदेव गृह्णन्ति । मानवाः आधिक्येन गृह्णन्ति सञ्चयं कुर्वन्ति च । आधिक्येन ग्रहणे अधिकमानन्दप्राप्तिः भवति इति भावयन्ति । परन्तु सृष्टिरहस्यं भिन्नम् एव ।

विश्वशरीरे प्रतिव्यक्ति अङ्गम् इव । परस्परं बान्धव्यं भवति यथा मानवशरीरे सर्वाङ्गाणां बन्धुत्वं वर्तते । देहे प्रत्यङ्गस्य कार्यम् अन्याङ्गस्य लाभाय भवति । एकेन अङ्गेन विना अपि देहे काचन बाधा वर्तते । तथैव समाजे यदि सर्वे परोपाकरं कुर्वन्तः जीवन्ति चेत् सर्वस्य लाभकरम् भवति ।

वायुः सूर्यतापः जलं चेत्यादयः अस्माभिः धनव्ययेन विना लभ्यन्ते । अस्माकं परोपकाराः एव समाजाय कृतज्ञताकर्मणि सन्ति ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s