अद्य महापुरुषस्य आदर्शस्य त्यागजीविनः भारतीयस्वातन्त्र्ययोद्धुः श्रीबालगङ्गाधरतिलकस्य स्मृतिदिनम् अस्ति । सः चतुश्षष्टिवयस्कः १९२० तमे संवत्सरे अस्मिन्दिने दिवङ्गतवान् । भारतदेशस्य स्वातन्त्र्यार्थम् अपारप्रयासं कृतवान् । स्वदेशशासने मम अधिकारः इति घोषितवान् । देशहिताय तस्य कर्माणि सर्वे जानन्ति । अत्र तस्य चरित्रात् द्वौ अंशौ सूचयामि ।

प्रथमांशः
सः पूणे नगरे विद्यालये गणितशास्त्रस्य अद्यापकः आसीत् । तथापि देशस्वातन्त्र्यार्थं तस्य जीवनं समर्पितवान् । एकदा कश्चन जनः तं पृष्टवान् । “भोः, शीघ्रम् एव स्वातन्त्र्यं लप्स्यते । स्वातन्त्र्यभारतदेशे कां पदवीं स्वीकरिष्यसि ? प्रधानमन्त्री भवितुम् इच्छति वा वित्तकोशसचिवपदवी अङ्गीक्रियते वा” इति । “अहं द्वावपि न स्वीकरिष्यामि ।भारतदेशस्य अभिवृद्ध्यर्थम् अनेके नेतारः भवेयुः । बहुछात्राः देशोद्धारणसेवायां प्रेरणीयाः । तदर्थम् अध्यापनार्थं पूणानगरं गत्वा यावज्जीवनं समर्पयामि” इति ।
गुरुस्थानं सर्वश्रेष्ठस्थानं । चाणक्यनीतेः सुभाषितम् एवम् अस्ति ।
एकेमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चानृणी भवेत् ॥
यः गुरुः एकम् एव अक्षरं शिष्यं प्रबोधयेत् पृथिव्यां तत् द्रव्यं नास्ति यत् दत्वा च (शिष्यः) अनृणी भवेत् ।

द्वितीयांशः
लाल् बाल् पाल् इति त्रयः माहापुरुषाः स्वातन्त्र्ययोद्धारः आसन् । तेषु बालगङ्गाधरतिलकः अधिकतया श्रेष्ठः अभवत् । सर्वे तम् अधुनापि स्मरन्ति । किमर्थं चेत् । सः भगवद्गीतापालकः अपि असीत् । सः गीतया उपदिष्टं कर्ममार्गम् आचरितवान् । सः गीतारहस्यम् इति पुस्तकस्य लेखकः अपि ।
ये जनाः गीताबोधनम् आश्रयन्ति ते निश्चयेन अन्नतस्थानं प्राप्नुवन्ति ।
जगद्गुरुः आदिशङ्कराचार्यः भजगोविन्दे वदति
भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता । सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥
येन भगवद्गीता किञ्चित् अधीता येन गङ्गाजललवकणिका पीता येन सकृदपि मुरारिसमर्चा क्रियते यमेन तस्य चर्चा न क्रियते ।
तस्मै बालगङ्गाधरतिलकाय महापुरुषाय मार्गदर्शकाय गौरवार्हाय तस्य स्मृतिदिने मम कृतज्ञतापूर्वकप्रणामान् समर्पयामि । सः भरतीयहृदयेषु सदैव अमरः भवेत् ।
Sources:
- Episode 1 – Discourse delivered by Sri Sathya Sai Baba on 18-Jul-1981 https://links.sairhythms.org/fCyc
- Episode 2 – Discourse delivered by Sri Sathya Sai Baba on 21-Oct-1696 https://links.sairhythms.org/8FKp
- Sanskrit Greeting – @livesanskrit Instagram
- Geeta Rahasya Book Cover Image – https://www.amazon.in/Geeta-Rahasya-Bal-Gangadhar-Tilak/dp/B005N1KF6A
- Chanakya Neeti Verse No 15-02 (१५-०२) https://sanskritdocuments.org/doc_z_misc_major_works/chANakyanItikrama.html