प्रवेशः – भो मित्र । कुशलं वा ? प्रतिदिनं वार्ताः पठति वा ?
सुशान्तः – कथं भोः । समयः एव नास्ति । प्रातः काले ६ वादने उत्थाय दैनन्दिनकार्याणि समाप्य ७ वादने अल्पाहारं स्वीकृत्य कार्यालयं गच्छामि । रात्रौ १० वादने गृहमागमनम् भवति । भोजनं कृत्वा निद्रां करोमि । एतदेव प्रतिदिनं चलति । कुत्र समयः अस्ति अन्यकार्येभ्यः ।
प्रवेशः – अस्तु अस्तु । तदेव पुनः पुनः मा वद । कोरोणारोगतरङ्गाः पुनः सर्वत्र प्रसरन्ति इति सर्वे भयभीताः सन्ति । परन्तु चिन्ताग्रस्ताः न भवनीयाः । इदनीं बहूनि आम्लजनकयन्त्राणि वर्तन्ते मुखवस्त्राणि अपि । सूच्यौषधं स्वीकर्तुम् शासकाः बहुषु स्थलेषु सौलभ्यं आयोजितवन्तः । विद्यालयाः अपि अध्यापनं गृहात् एव कुर्वन्तः सन्ति । प्रभुत्वं नूतनान् चिकित्सालयान् अपि निर्मितवन्तः अनेकेषु जनपदेषु। तीव्र कोरोणाप्रसारणं भवति चेदपि वयं सोढुम् शक्यावहे ।
सुशान्तः – कथं भोः । मुखवस्त्राणि आधिक्येन आपणिकेषु सन्ति न तु जनानां मुखे । कोरोणारोगस्य अपेक्षया सूच्यौषधस्वीकरणे जनाः शङ्किताः सन्ति । केवलं स्थितानि उपलभ्यानि ज्ञात्वा कस्य रक्षणं भवेत् । केवलं ज्ञानेन किमपि प्रयोजनं नास्ति । आचरणीयम् अपि । आचार्यः इति पदस्य अर्थः जानाति वा ।
प्रवेशः आचार्यः तु अद्यापकः । आङ्ग्लभाषायां Teacher इति कथयन्ति ।
सुशान्तः आचरति इति आचार्यः । अद्यतनाः अध्यापकाः पाठयन्ति न तु स्वयमाचरन्ति । यः आचरति अपि सः एव आचार्यः भवति ।
प्रवेशः सत्यं उत्तमम् अपि ।
सुशान्तः तिष्ठ तिष्ठ । इतोऽपि अस्ति । भवान् सूच्यौषधं स्वीकृतवान् वा । यदाकदाऽपि भवान् गृहात् बहिः गच्छति तदा मुखवस्त्रं धरति वा ।
प्रवेशः आ उ ..ए… इ…… न मा …न
सुशान्तः कथं तर्हि तव रक्षणं भवेत् । विषये प्रवेशमात्रेण किमपि साधयितुं न शक्नोषि । नियमान् पालय आचर च तदा सुशान्तेन जीवितुं शक्यते ।
प्रवेशः उत्तमं वाचं । भवतः नामधेयं भवतः स्वभावानुसारम् एव अस्ति । साधु साधु ।
सुशान्तः अलं श्लाघनेन । भवतः नाम अपि । इतःपरं विषये प्रवेशं कृत्वा मा स्थगतु । आचरतु अपि । सदैव एतत् सुभाषितं स्मरतु ।
शास्त्राण्यधीत्यापि भवन्ति मूर्खाः यस्तु क्रियवान् पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥
प्रवेशः अद्य आरभ्य सर्वम् आचरामि ।
सुशान्तः अस्तु पुनर्मिलावः ।
