आचार्यः – छात्राः शीघ्रम् आगच्छन्तु । पठनस्य आरम्भं कुर्मः ।
मोहनः (छात्रः) – अहो गोपाल किशोर माधव सीते सरस्वति ….. अलं क्रीडनेन । गुरुवर्यः आह्वयति । कक्षा गन्तव्या ।
माधवः (छात्रः) – आगच्छन् अस्मि । अद्य कं विषयं पाठयति गुरुवर्यः ।
मोहनः (छात्रः) – न जानामि । परन्तु कश्चन मुख्यविषयः इति आचार्यः उक्तवान् ।
सीता (छात्रा) – पूर्वं यदा गुरुवर्यः तथा उत्कवान् कस्यचन महापुरुषस्य वचनानि अश्रावयत् । सा कक्षा मह्यं बहु अरोचत् ।
मोहनः (छात्रः) – आम् । स्मरामि । ह्यः मम गृहकार्ये काचन बाधा आसीत् । अतः आचार्येण मिलित्वा तस्मात् मार्गदर्शनं स्वीकृतम् । अन्ते माम् आदिष्टवान् यत् श्वः निश्चयेन कक्षाम् आगच्छतु इति । यदा मया कः विशेषः इति परिप्रश्नः कृतः तदा गुरुवर्यः हसन् श्वः ज्ञास्यसि इति अवदत् ।
( सर्वे छात्राः कक्षां प्रविश्य उपविष्टवन्तः। आचार्यः उत्थाय प्रार्थनागीतां गायन्तु इति अभिनयेन सूचितवान् | )
( छात्राः मिलित्वा एककण्ठेन ॐ कारं गीत्वा जगद्गुरुणा आदिशङ्कराचार्येण विरचिता सरस्वतीवन्दना गायन्ति – या कुन्देन्दुतुषार….| )

आचार्यः – पुस्तकानि उद्घाट्य एतं श्लोकं लिखत । (इति कथयित्वा कृष्णफलके श्लोकं लिखति )
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥
आचार्यः (कृष्णफलके लिखित्वा) ददाति इति पदस्य कः अर्थः । कोऽपि जानाति वा ।
गोपालः (छात्रः) अहं वदामि । यच्छति ।
आचार्यः साधु सम्यक् । इदानीं प्रतिगृह्णाति …….
मोहनः (छात्रः) (उच्चैः कक्षापृष्ठभागात्)….स्वी….स्वी…..स्वी…… अहो क्षम्यतां गुरुवर्य …… सद्यः विस्मृतवान् ।
आचार्यः चिन्ता मास्तु । शान्ततया विचिन्त्य वदतु ।
मोहनः (छात्रः) स्वीकरोति ।
आचार्यः साधु मोहन । अध्ययने शीघ्रता मा भवेत् । गुह्यं तु सर्वे जानन्ति एव । भोजनविषये पाठयितुम् आवश्यकं नास्ति । अस्तु । तर्हि प्रीतेः पर्यायपदं किम् ।
सीता (छात्रा)– मित्रता । मम प्रियमित्रं सरस्वती अस्ति । सा पार्श्वस्थग्रामे निवसति ।
आचार्यः साधु साधु । इदानीं वयम् लघु दृष्यकं पश्यामः । मया श्लोकः कुतः स्वीकृतः इति जानीमः। भो किशोर किञ्चित् सहाय्यं करोति वा । एतस्मिन् सङ्गणके आवश्यकः तन्त्राशः अस्ति वा । ……… अस्ति अस्ति । प्राप्तम् । सर्वे पश्यन्तु ।