विवादस्पर्धा – ०४/०८/२०२१

आचार्यः अद्य विवादस्पर्धा भवेत् । सर्वे सिद्धाः वा । परह्यः एव सूचितम् । अस्तु । इदानीं विभज्य पक्षद्वये तिष्ठन्तु ।

मोहनः गुरुवर्य । तत् पक्षद्वयं किम् ।

आचार्यः वदामि वदामि । सदा शीघ्रता । उत्साहः श्रेष्ठः परन्तु सत्वरता प्रमादकरी अस्ति ।

सीता अहं जानामि गुरुवर्य । प्रथमः पक्षः बुद्धिः अन्यपक्षः बलम् इति भवान् परह्यः एव उक्तवान् आसीत् । मोहन विरामे आसीत् तदर्थं सः न जानाति ।

आचार्य: विरामः । कुतः अनुमतिः प्राप्ता । मया न दत्तम् । अहो मोहन कक्षायाः पश्चात् माम् मिलतु ।

(मोहनः अभिनयेन सीतां दर्शयति तस्य क्रोधं । सीता अभिनयेन क्षमां याचते ।)

आचार्यः सर्वे स्वस्वपक्षं प्रतिगच्छन्तु । आरंभं कुर्मः । नियमान् सर्वे जानन्ति किल । आदौ भवतां भूमिकां स्थापयित्वा तदनन्तरं विवादं करोतु ।

बुद्धिः

मोहनः किशोरः सीता च अत्र तिष्ठन्ति ।

१. मोहनः जीवने बुद्धिः एव सर्वश्रेष्ठा भवति । बुद्धिं विना किमपि साधयितुं असाध्यम् अस्ति । बलं विना अपि बुद्ध्या जीवने व्यवहर्तुं शक्यते ।

२. सीता बुद्धिः मार्गदर्शनं करोति । उदाहरणार्थं वदामि । बहुबलवान् राजा स्वराज्ये एव पूज्यते परन्तु विद्वान् सर्वत्र पूज्यते । अपि चाणक्यनीतौ एवं अस्ति | मानवः बुद्ध्या व्यवहरति ।

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । 
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥

३. किशोरः चलच्चित्रं दर्शयामि । तस्मात् सम्यक् अवगम्यते ।

बलम्

सरस्वती गोपालः माधवः च अत्र तिष्ठन्ति ।

१. सरस्वती बलम् द्विविधं वर्तते । मानसिकबलं शारीरिकबलं च । मनोबलं श्रमतां तितिक्षां च इत्यादीन् गुणान् आश्रयति । शारीरिकबलं सर्वे जानन्ति एव । एते बले विना जीवनयात्रा क्लिष्टा एव । सदैव अन्येषां सहाय्यम् आवश्यकं भवति ।

२. माधवः बलं विना पराश्रयः आवश्यकः । मत्स्यन्यायः लोकस्वभावः । जीवितुं बलं प्रधानं अस्ति। स्वबलेन उद्यमेन च पिपीलिकाः अपि गच्छन्ति ।

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

३. गोपालः सरस्वति माधव । स्थापयताम् अस्माकं दृष्यकम् । पश्यामः कः श्रेष्ठः इति ।


(सर्वे हस्तताडनं कुर्वन्ति । आचार्यः परिशीलनं कृत्वा विजयघोषणं करणीयम् । छात्राः कः विजेता कः पराजितः इति ऊहन्ते । मोहनः चिन्ताग्रस्तः भवति यथा काक्षायाः पश्चात् आचार्यः मेलनीयः )

भोः पाठकः भवतः दृष्ट्या विवादस्पर्धायां कः विजेता ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s