आचार्याः – सर्वे उत्तमतया स्पर्धायां आचरितवन्तः । स्पर्धानियमान् अपि सम्यक् पालितवन्तः । अहं सन्तुष्टः अस्मि ।
( आचार्यस्य प्रेरणदायकवचनानि शृत्वा सर्वे छात्राः उच्चैः आनन्देन नर्दन्ति । )
मोहनः गुरुवर्य कः विजेता इति शीघ्रं घोषयतु ।
आचार्यः अरे मोहन भवतः आजन्मतः शीघ्रता । जन्मनि अपि नवमासात् पूर्वं एव भवान् बहिरागम्य आक्रोशं कृतवान् ।
(सर्वे छात्राः मोहनं पश्यन्तः हसन्ति । मोहनः खिन्नः भवति । हस्ताभ्याम् मुखं आवृत्य रोदिति । सहपाठी किशोरः तस्य समीपं गत्वा मृदुस्वरेण तं सान्त्वयति )
आचार्यः भोः मोहन । अस्तु । क्षम्यताम् । केवलं हास्योद्देशेन उक्तम् । अलं रोदनेन । आगच्छतु अत्र । भवान् एव विजयघोषणं करोतु ।
(झटिति उत्थाय हसन् नन्दन् मोहनः कक्षापृष्ठभागात् धावन् गुरुवर्यस्य समीपं गच्छति । गुरुवर्यः वयसा ज्येष्ठः चेदपि तम् आलिङ्ग्य पुनः क्षमापणं यच्छति ।)
(सर्वे छात्राः तुष्यन्तः हस्तताडनं कुर्वन्ति । आचार्यः मोहनस्य कर्णे मन्दस्वरेण कः विजेता इति कथयति )
मोहनः अहो गुरुवर्य । मया किमपि न अवगतम् ।
आचार्यः चिन्ता मास्तु । छात्रेभ्यः प्रकटी करोतु ।

मोहनः कृष्णफलके एवं लिखति ।
छात्राः – गुरुवर्य । किमर्थं पुनः ईदृशी समस्या ।
(कक्षा सद्यः तूष्णीं भवति । छात्राः चिन्तने निमग्नाः भवन्ति )
घटनातः बहिरागम्य
किशोरः – भो पाठक । किञ्चित् कृपया साहाय्यं करोतु । अत्र कथालोके मम सहपाठिनः न जानन्ति । समस्यां निगूहितुम् कञ्चन उपायं ददातु । यदि भवान् जानाति वा सहाय्यं कर्तुं इच्छति तर्हि अस्मभ्यं प्रेषयितुं अधः सन्देशप्रेषणस्थाने (comments section) गुह्यसन्देशं स्थापयतु । धन्योस्मि । अधिकः समयः नास्ति । पुनः कथालोके गन्तव्यम् । शीघ्रं प्रेषयतु ।
Beautiful and promethean way of learning. Please keep the good work going!
LikeLike