एकदा गणानां नायकः कः इति निर्णेतुं एका स्पर्धा आयोजिता आसीत् । गणभागिभिः लोकस्य प्रदक्षिणं कृत्वा शिवस्य सान्निध्ये आगमनीयम् आसीत् । यः प्रथमः एतस्याम् स्पर्धायां सः एव विजेता इति स्पर्धायाः नियमः आसीत् । सर्वे गणाः तेषां स्ववाहानं आरुह्य गमनं प्रारम्भं कृतवन्तः । शिवस्य ज्येष्ठपुत्रः अपि स्पर्धायां उत्साहेन चलितवान् । तस्य गजमुखः किन्तु मूषकवाहनम् आसीत् । तदर्थं मन्दं मन्दम् एव गन्तुं शक्नोति स्म । यदा सः प्रारम्भपङ्क्तेः अनतिदूरे एव आसीत् तदा नारदमहर्षिः तत्र आगम्य तम् पृष्टवान् यत् भवान् कुत्र गच्छति । शिवपुत्रः कुपितः अभवत् यथा आशङ्का क्रिया आसीत् । यदि कोऽपि गच्छन् अस्ति तर्हि तमाभिमुखं स्थित्वा भवान् कुत्र गच्छति इति प्रष्टव्यम् असमीचीनम् इति मन्यन्ते । यदि सा अभिमुखव्यक्तिः एकाकी ब्राह्मण: अस्ति चेत् तर्हि इतोऽपि माहाशङ्का एव इति मन्यन्ते ।
कथञ्चित् नारदः तं सान्त्वयति स्म । महर्षिः स्पर्धाविषयं अपि स्पर्धायां जेतुं तस्य इच्छा तस्मात् ज्ञातवान् । नारदमहर्षिः प्रीत्या तस्य निराशां दूरिकृत्वा श्रीरामनामस्य महत्वं बोधयति । रामनाम प्रपञ्चवृक्षस्य बीजम् इव अस्ति । तं रामनाम भूमौ लिखित्वा प्रदक्षिणं करोति चेत् विश्वसञ्चरणतुल्यम् अस्ति इति ज्ञापयित्वा एवं कृत्वा पितुः समीपं गत्वा तव स्पर्धापुरस्कारं प्राप्नोतु इति बोधितवान् ।
तद्वतेव कृत्वा शिवज्येष्ठपुत्रः पितुः समीपं गतवान् । भवान् कथं लोकप्रदक्षिणं अतिशीघ्रतया समापयित्वा आगतवान् इति महेश्वरः पुत्रं पृष्टवान् । तदा पुत्रः नारदस्य आगमनं तस्य बोधनवचनानि सर्वं सूचयति स्म। महेश्वरः नारदस्य अवलोकनम् अङ्गीकृत्वा पुत्रं श्लाघित्वा विजयघोषणं करोति स्म । अद्यप्रभृति भवान् गणानां नायकः गणपतिः गणनायकः विनायकः इति सुप्रसिद्धः भवेत् इति घोषितवान् ।

मूलं आङ्ग्लभाषायां “Chinna Katha – 1” इति पुस्तके प्रथमा कथा ।