शङ्कराचार्यस्य चत्वारः अनुचराः तोटकहस्तमालकसुरेश्वरपद्मपादाः आसन् । तेषु पद्मपादः गुरुशुश्रूषायां सर्वदा निमग्नः आसीत् । अध्ययने अधिकतया ध्यानं समयं च न दत्तवान् । यद्यपि तस्य अपाण्डित्यं दृष्ट्वा सहपाठिनः तम् निन्दितवन्तः तथापि तस्य गुरुभक्तिं श्लाघितवन्तः।
एकदा सः गुरोः वस्त्राणि नद्यां प्रक्षाल्य शिलायां प्रसारितवान् आसीत् । यदा सः तानि वस्त्राणि सङ्गृह्णन् आसीत् तदा नद्याः प्रवाहः वेगेन वर्धमानः अभवत् । अतः कस्मिञ्चित् एव स्थले पादौ स्थापयित्वा तिष्ठन् आसीत् । परन्तु यदि प्रतीक्षां करोमि चेत् तर्हि विलम्बः भविष्यति अतः इदानीं एव गुरवे वस्त्राणि दातुं गच्छामि इति निर्णयं कृत्वा जले (नद्याः उपरि) एव धावित्वा गुरुसमीपं गतवान् । तस्य रक्षणं निश्चयेन गुरुणा एव क्रियते इति दृढविश्वासः तस्मिन् आसीत् ।
यत्रकुत्रापि सः पदौ जले स्थापितवान् तत्र तत्र सरसिजानि उत्पाद्य पदस्थले आश्रयरूपेण स्थितवन्तः । अतः पद्मपादः इति अभिख्यातः अस्ति । अग्रे गुरोः अनुग्रहेण सर्वविद्यापारङ्गतः अभवत् । गुरुभक्त्या अनन्तयशस्वी अभवत् ।
लेखनमूलं Chinna Katha – 1 पुस्तके द्वितीयकथा |

यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
तथा गुरुगतं विद्यां शुश्रूषुरधिगच्छति ।
चित्रलेखनमूलं www.radiosai.org
Katha ati sundaram.padmapadayoh Gurubhakti prashamsaneeyam.
LikeLiked by 1 person