यथा सूर्यः तथा आत्मा अस्ति । अर्थात् स्वप्राकशः विद्यते । यथा भास्करं द्रष्टुम् अन्यदीपस्य प्रयोजनम् नास्ति तथैव आत्मनः दर्शने अपि नास्ति । रविः स्वयं प्राकाशते । तथैव आत्मा अपि । आत्मनः प्रकाशेन बुद्धिः प्राणाः मनः च जीवित्वा कार्यं कुर्वन्ति । आत्मा अन्तर्ज्योतिः अस्ति । परन्तु तस्य दर्शनं सुलभतया न भवति यतः अशुद्धं मनः अशुद्धं चित्तम् अहंकारः च इत्यादि मालिन्यानि तं आत्मानम् आच्छादयन्ति ।
जगद्गुरुणा आदिशङ्कराचार्येण ब्रह्मज्ञानावलीमालायां एवं वर्णयति ।
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः । ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥२१॥
एषा माला सर्वेषां मोक्षसिद्धये इति प्रथमश्लोके एव गीतायाः महत्वं प्रतिपादयति ।
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् । ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ १ ॥
स्वामीचिन्मयानन्दः आङ्ग्लभाषायां एकविंशतिः श्लोकस्य अनुवादः एवं लिखति ।
Within am I Light, Without am I Light, Deep within the depth of myself am I Light, Beyond the beyond ! Light of Lights, the Self-Effulgent Lights, The Self's own light, Shiva am I, Auspiciousness am I
ह्यः यदा मया एषा रचना पठिता तदा मनसि यत् ध्यानं मया प्राथमिकविद्यालये अधीतम् आसीत् तस्य स्मरणं जातम् । तत् ज्योतिध्यानम् अस्ति । यस्मिन् सुखासने उपविश्य अग्रे दीपं स्थापयित्वा तस्य दर्शनं एव एकाग्रतया करणीयं । अनन्तरं नेत्रे निमील्य मनसि ज्योतिः दर्शनीयः । तं ज्योतिं देहे प्रत्येकम् अङ्गं प्रति नीत्वा तत्तदङ्गस्य शुद्धीकरणं क्रियेत । तत्पश्चात् ज्योतिं हृदयकमले स्थापयित्वा तस्य रश्मयः देहे पूरणीयाः । तत्पश्चात् ज्योतिः बृहत् भूत्वा गृहं नगरं देशं लोकं विश्वं चेति क्रमशः सर्वं आच्छादयति । अन्ते सर्वं ज्योतिर्मयं भवति ।
आदौ अहं ज्योतौ अस्मि । अनन्तरं ज्योतिः मयि अस्ति । अन्ते अहमेव ज्योतिः अस्मि ।
ब्रह्मज्ञानदायकं वचनं सरलतया मम गुरुणा बाल्ये एव पाठितम् । अहो अस्माकं छात्राणां सौभाग्यं वर्णानातीतम् अस्ति ।
मूलानि
- ब्रह्मज्ञानावलीमाला – https://sanskritdocuments.org/doc_z_misc_shankara/brahmajna.html
- आङ्ग्लभाषायाम् अनुवादः – Meditation & Life by Swami Chinmayananda पुस्तकात् एकविंशतिः अध्यायात् । (ISBN – 978-81-7597-639-9