भाषणस्य सङ्क्षेपरूपम् – १०/०८/२०२१

संस्कृतभारत्याः प्रबोधनवर्गे ह्यः श्री उपद्रष्टा वेङ्कटमूर्तिमहोदयः वर्गछात्राणां कृते प्रेरणात्मकभाषणं दत्तवान् ।

वाचकः – प्राध्यापकः गायकः संस्कृतभारत्याः चिरकार्यकर्ता संस्कृतप्रवर्तकः उपद्रष्टा वेङ्कटमूर्तिमहोदयः ।

  • प्रबोधनवर्गस्य अनन्तरं बालकेन्द्रं चालयतु । प्रशिक्षणवर्गं स्वीकृत्य संभाषणवर्गं चालयतु ।
  • अत्र सर्वे स्वप्रेरणया पाठयन्ति । कोरोनाकाले अपि अन्तर्जाले अध्यापनं चलति ।
  • विदेशेषु अपि अन्तर्जालमाध्यमेन उत्तमतया आनन्देन सर्वे भागं स्वीकुर्वन्ति ।
  • संस्कृतभारत्याः भिन्नता वर्तते ।
  • आदौ हिन्दुसेवाप्रतिष्ठानम् आसीत् । अनन्तरम् एव संस्कृतभारती इति अभिख्याता अभवत् ।
  • सभ्यत्वं किमपि नास्ति ।
  • संभाषणशिबिरस्य पत्रं दृष्ट्वा जनाः कथं दशदिनेषु संस्कृते संभाषणं कर्तुम् अर्हन्ति इति चिन्तयन्ति ।
  • सहस्राधिकरूप्यकाणि दत्वा जनाः Spoken English, Spoken Kannada स्वीकर्तुं गच्छन्ति ।
  • परन्तु निःशुल्कं शिबिरं अस्ति । अपि शिबिरे प्रीत्या अभिनयेन पाठयन्ति । अनेकवारं वदन्ति । पाठनशैली एव भिन्ना वर्तते ।
  • दशदिनानि प्रतिदिनं घण्टाद्वयम् आहत्य विंशतिघण्टात्मकशिबिरं भवति । अन्यभाषां विना केवलं संस्कृतेन अध्यापनं चलति ।
  • आरम्भे मम नाम इति लघुवाक्यं परन्तु अन्ते दीर्घवाक्यानि अपि सप्तविभक्तिषु छात्राः वदन्ति ।
  • आन्ध्रप्रदेशे प्रथमशिबिरे अहम् आसम् । इति अभिमानेन आनन्देन उक्तम् ।
  • इदानीं बहुषु देशेषु संस्कृतभारत्याः कार्याणि चलन्ति ।
  • संस्कृतेन संभाषणं कुरु । जीवनस्य परिवर्तनं कुरु ।
  • गृहे विद्यालये समाजे बालकेन्द्रं सम्यक् चलन्ति ।
  • लक्ष्यप्राप्त्यर्थं सर्वे कार्यकर्तारः भिन्नभिन्नप्रयत्नान् कुर्वन्ति ।
  • आरम्भकालतः ये कार्यं कुर्वन्ति ते इदनीम् अपि तिष्ठन्ति ।
  • तन्त्रज्ञाः वैद्याः गृहिण्यः विभिन्नेभ्यः स्थरेभ्यः वृत्तिभ्यः जनाः आगच्छन्ति ।
  • गुरोः उपदेशः तैत्तरीयोपनिषदि – दानविषये एवं वदति ।
    • श्रद्धया देयम् – उदा बालगङ्गाधरतिलकस्य (गणितशास्त्रं मम इष्टम् अस्ति परन्तु इदानीं देशाय समयः दातव्यः) देशस्य का आवश्यकता वर्तते – तद्वत् कार्यं करणीयम् ।
      • लक्ष्यं किम् युवकानाम् ? का दृष्टिः । वयम् अन्यैः सर्वं प्राप्तवन्तः । तर्हि देशाय भवान् किम् करोति ।
      • वन्दे मातरं – स्वातन्त्र्यदिनेषु – माहामन्त्रः आसीत् ।
      • विद्याभ्यासं समाप्य आगतवान् । जीवनं समर्पयामि समाजाय । पूर्णकालिकरूपेण कार्यं करोमि । आदर्शपूर्णसमर्पणम् आवश्यकम् ।
  • अस्माभिः अधिकतया समयः दातव्यः ।
  • न नैव न शक्यते इति पदानाम् उपयोगः न करणीयः ।
  • अनेकेषु स्थलेषु पञ्चदिनानि एव कार्यालये कार्यं कुर्वन्ति । तर्हि दिनद्वयं संस्कृतवर्धनाय समयं दातुं शक्यते ।
  • कोरोनाकाले कार्यकर्तारः कियत् कार्यं कृतवन्तः ।
  • निश्चयः स्वीकृतः चेत् करणीयः एव – तद्वत् संस्कृतभारतीयकार्यकर्तारः सन्ति ।
  • पाठयितुं न शक्नोमि चालयितुं न शक्नोमि चिन्ता नास्ति । सन्देशान् प्रेषयन्तु । मित्रं दूरवणीं कृत्वा सामान्यवार्तालापं कृत्वा विषयं सूचयतु । केवलं दशदिनानि दातव्यानि ।
  • आबाल्यात् शृणोति स्म (विष्णुसहस्रनाम, ललितासहस्रनाम, भजगोविन्दं, इत्यादयः )
  • संपूर्णजीवनं दातुं न शक्यते चेत् एकघण्टा ददातु प्रतिसप्ताहं। संकल्पं स्वीकृत्य कार्यं करोतु । सर्वान् योजयामि क्रमशः इति निश्चयं कुरु ।
  • वर्षे ५२ भानुवासराः सन्ति । Sunday सङ्गकार्यः ।
  • अस्माकं दायित्वम् अस्ति ।
  • तद्दिनं दूरं नास्ति यदा सर्वे विक्रेतारः मार्गे धीवराः अपि कर्षकाः अपि संस्कृते एव गीतं गायन् कार्यं कुर्वन्ति ।
  • परोपकारार्थम् इदं शरीरं । सत्यं ब्रूयात् प्रियं ब्रूयात् …. ।
  • अहं पठामि अन्यान् अपि प्रेरयामि ।
  • अस्माकं दायित्वम् अस्ति – समयार्पणम् ।
  • भगत्सिंहः इव समर्पणं करोमि । युद्धस्य आवश्यकं नास्ति । संस्कृतसंरक्षणे तस्य वर्धनाय च संकल्पम् स्वीकुर्मः ।
  • समयः दातव्यः ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s