शिक्षणेन अध्ययनेन च भाषायां कुशलता एधते । प्रतिदिनं किञ्चित् पठनं श्रवणं लेखनं वार्तालापं च करणीयानि। तदर्थम् अहमपि प्रतिदिनं लिखन् अस्मि । भवन्तः ये पठन्ति भवताम् अपि पठनस्य अभ्यासः भवेत् इति अपेक्षा अस्ति । सहपाठिनः भूत्वा परस्परं साहाय्यं कृत्वा अग्रे गच्छाम । यानि अहं कुर्वन् अस्मि तानि अत्र लिखित्वा सूचयामि ।
पठनम् – सुधर्मावार्तादिनपत्रिका, संभाषणसन्देशः इति मासपत्रिका, Whatsapp मध्ये संस्कृतगणेषु सन्देशाः, Twitter मध्ये सन्देशाः, संस्कृतकथापुस्तकानि च अन्याः ।
श्रवणम् -Youtube मध्ये दृष्यकावल्यः (उदा – भजगोविन्दस्य प्रवचनानि, संस्कृतभाषणानि, लघुचलनचित्राणि च इतराः )
दर्शनम् – Youtube मध्ये DD वार्तावली, संस्कृतभारतीतेलङ्गाणया आयोजितः नित्यवार्तासमाहारः च इतराः ।
लेखनम् – अन्तर्जाले प्रतिदिनम् एकं लघु लेखनम् । स्वाध्याये शास्त्रग्रन्थपठने लेखनम् । Teach Yourself Sanskrit इति पुस्तके अभ्यासाः ।
वार्तालापम् – राजीवमहोदयेन आयोजितं साप्ताहिकमेलनं गृहे भ्रातृजायया सह वार्तालापम् च ।
अध्ययनम् – अन्तर्जाले sanskritfromhome.in इति जालस्थाने ।
उपकरणानि – अन्तर्जाले कोशाः – learnsanskrit.cc , https://ashtadhyayi.com/ जङ्घमदूरवाण्यां Apps (iOS) – Shloka a Day, धातुरूपं 360, सन्धि, शब्दव्यास च ।
सुभाषितं लिखित्वा लेखनं समापयामि ।
आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया । पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥