किमर्थं तीर्थक्षेत्रं गन्तव्यम् – १२/०८/२०२१

अद्यतनसुभाषितम् एवम् अस्ति ।

तीर्थे तीर्थे ब्रह्मवृन्दः वृन्दे वृन्दे तत्वचिन्तानुवादः । 
वादे वादे जायते तत्वबोधः बोधे बोधे भासते चन्द्रचूडः ॥ 

तीर्थेषु पवित्रस्थलेषु उत्तमाः मुनयः भक्ताः च तिष्ठन्ति । तेषां मध्ये तत्वविचारस्य संवादः भवति । संवादात् तत्वबोधस्य अवगमनं प्राप्यते । तत्वबोधस्य अवगमनात् चन्द्रचूडस्य साक्षात् दर्शनं भवेत् । (यस्य चूडायां केशे चन्द्रः अस्ति सः चन्द्रचूडः)

वर्षद्वयात् पूर्वं तिरुवन्नमल्लैतीर्थस्थलं गतवान् । तत्र अरुणाचलेश्वरस्य मन्दिरं शोभते । श्री रमणमहर्षेः आश्रमं विराजते । आश्रमे प्रशान्तं वातावरणं वर्तते । सर्वे स्वचिन्तने निमग्नाः भवन्ति । मृदुलाः सिकताः सर्वत्र। तस्य उपरि निश्शब्देन भक्तजनाः चलन्ति । मन्दिरे प्रातःकाले वेदपठनेन सह शिवलिङ्गस्य अभिषेकं भवति । आश्रमस्य पृष्ठतः पर्वतः वर्तते । पर्वतारोहणमार्गः सुन्दरः अस्ति । लघु शिलाखण्डान् स्थापयित्वा मार्गं समीकृतवन्तः । पर्वतस्य उपरि गुहाः गूहन्ति । तासु ज्ञानोदयम् प्राप्तुम् इच्छुकाः ध्याने वा स्वविचारे वा जपे मग्नाः उपविशन्ति ।

गुहायाम् अस्माकम् मनसः सद्यः विकल्पाः सङ्कल्पाः च निर्गच्छन्ति । अन्तर्बहिश्च निश्शब्दस्य अपूर्वः अनुभवः विद्यते । तस्मिन् अवसरे गुरुणा उक्तानि वचनानि विचारणीयानि । यथा अचञ्चलजले जलाशयस्य स्थलस्य दर्शनं भवति तथैव तस्यां गुहायां गुरोः बोधनानां सारः अवगम्यते ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s