एकदा कश्चन साधकः आसीत् । उत्सुकः सः बहूत्साहेन दिव्यज्ञानं प्राप्तुं प्रयत्नं कुर्वन् आसीत् । तस्य ज्ञाननेत्रं उद्घाटनीयम् इति इच्छा आसीत् । सः गच्छन् एकां गुहां पश्यति ।
गुहायां कश्चन मुनिः आसीत् । तां गुहां प्रविश्य आदौ लघु दीपं पश्यति । परन्तु अन्ते दीपं विना गुहा अन्धमयी जाता। सामान्यतः अन्धकारात् जनः बिभेति अपि भीतिकाले देवस्मरणं करोति । तथैव सः अपि उच्चैः नमः शिवाय नमः शिवाय इति सगद्गदम् उच्चारणं करोति ।
तस्य मन्त्रोच्चारणं शृत्वा मुनिः तस्य परिचयं पृच्छति । भवतः अनुग्रहं उपदेशं च प्राप्तुम् आगतवान् इति उत्तरं ददाति ।
गुहायां केवलं वायुना मुनिः जीवन् आसीत् । कस्मिंश्चित् मनसि किम् अस्ति इति ज्ञातुं सामर्थ्यं मुनेः आसीत् ।
प्रथमं दीपस्य प्रज्वलनं करोतु इति साधकम् आदिशति । साधकः अग्निपेटिकायाः अग्निशलाकां नीत्वा प्रज्वालयितुं यतते किन्तु न शक्नोति । सर्वाभिः अग्निशलाकाभिः प्रयत्नं करोति किन्तु साफल्यं न प्राप्नोति । तस्य असाफल्यं मुनिं प्रदर्शयति ।
दीपे तैलम् अस्ति वा न वा पश्यतु इति मुनिः सूचयति । दीपं दृष्ट्वा जानाति यत् किञ्चिदपि तैलं नास्ति । केवलं जलम् अस्ति दीपे इति गुरुं कथयति ।
तर्हि तस्मात् दीपात् जलं निष्कास्य तैलं स्थापयतु ततः पश्चात् प्रज्वालयितुं यतताम् इति गुरुः आदिशति । साधकः तथैव करोति । परन्तु तथापि दीपोज्वलनं न भवति ।
वृत्तिकायाः परीक्षणं करोतु प्रायः सापि आर्द्रा जाता इति गुरुः सूचयति । तद्वत् एव अस्ति इति साधकः वदति । अतः वृत्तिकाम् आतपे स्थापयित्वा शोषयतु तदनन्तरं दीपे स्थापयतु इति गुरुः साधकस्य मार्गदर्शनं करोति । साधकः तथैव करोति । तदनन्तरम् साधकः पुनः उज्ज्वालयितुम् अयतत । साफल्यं प्राप्नोति ।
दीपोज्ज्वलनं समाप्तम् इति कारणात् तस्य इच्छां गुरुं ज्ञापयति । विस्मितः गुरुः मया पूर्वमेव उत्तरं दत्तम् इति वदति । अज्ञानी साधकः पुनः बोधयतु इति गुरुं प्रार्थयति । दयासागरः गुरुः पुनः उक्त्वा तस्य सन्देहं निवारयति । इत्थं वदति ।
हृदयपात्रे जीवः वृत्तिका इव अस्ति । सा वृत्तिका लौकिकभोगेषु अनुरागेषु च द्रव्या जाता । तदर्थं हृदये ज्ञानज्योतिः न प्रकाशते । भवान् हृदयपात्रात् अनुरागान् निष्कास्य देवनामस्मरणेन पूरयतु । द्रव्यां वृत्तिकां नीत्वा वैराग्यस्य आतपे शोषयतु । ततः हृदये ज्ञानज्योतिः भासते ।

मूलं आङ्ग्लभाषायां “Chinna Katha – 1” इति पुस्तके तृतीया कथा ।
https://srisathyasaipublications.com/index.php?main_page=product_info&cPath=1_8_28&products_id=1450