कश्चन यशस्वी सुप्रसिद्धः चित्रकारः आसीत् । किन्तु कदाऽपि श्रीकृष्णं न मिलितवान् आसीत् । श्रीकृष्णादपि प्रशंसावचनानि प्रापणीयानि इति तस्य अभिलाष: आसीत् ।
एकदा तेन अवकाशः प्राप्तः । श्रीकृष्णं मिलित्वा स्वपरिचयं कृतवान् । कृष्णस्य वदनस्य चित्रलेखनं कर्तुम् तं स्थिरो भूत्वा तिष्ठतु इति प्रार्थितवान् । सः आदौ रूपरेखाः लिखितवान् । अहं चित्रं पूरयित्वा एकसप्ताहे आनेष्यामि इति उक्त्वा निर्गच्छति । श्रीकृष्णेन तस्य अहङ्कारभावः ज्ञातः ।
सप्ताहात् पश्चात् सः श्वेतवस्त्रावृतं पूरितं चित्रं आनीतवान् । यदा सः आवरणं निष्कास्य चित्रं पश्यति चेत् तदा आश्चर्यचकितः अभवत् । श्रीकृष्णनस्य वदनेन सह किञ्चिदपि सादृश्यं नासीत् । पुनः एकसप्ताहस्य अवधिं प्रार्थ्य निर्गच्छति । चित्रकारः एवं एव बहुधा प्रयत्नं कृतवान् किन्तु सर्वे प्रयासा: विफलीभूतवन्तः । खिन्नः निराशः चित्रकारः नगरं एव त्यक्त्वा कुत्रचित् दूरं गन्तुं निश्चितवान् ।
यदा सः गच्छन् आसीत् तदा नारदमहर्षिः सकृत् अभिमुखम् आगतवान् । कृष्णस्य चित्रलेखनं मूर्खत्वाय कल्पते यथा तस्य निश्चितं रूपं कदाऽपि न भवति। प्रति क्षणं सः तस्य वदनस्य आकारं परिवर्तयितुम् शक्नोति इति बोधयति नारदमुनिः । तथापि यदि भवान् कृष्णस्य चित्रलेखनं कर्तुम् इच्छति चेत् अहम् एकम् उपायं यच्छामि इति नारदमुनिः चित्रकारस्य कष्टं निवारयितुम् उक्तवान् । नारदमुनिः चित्रकारस्य कर्णे गुह्यसन्देशं अज्ञापयत्।
नारदमहर्षेः मार्गदर्शनं प्राप्य सः उत्सुकः चित्रकारः पुनः श्रीकृष्णं मेलितुं प्रस्थितवान् । इदनीम् अपि श्वेतवस्त्रावृतेन केनचन वस्तुना सह गतवान् । भवान् कथञ्चिदपि वदनस्य परिवर्तनं करोति चेदपि चित्रस्य तु साक्षात् भवतः वदनस्य सादृश्यं एव वर्तते इति कथितवान्।
आवरणवस्त्रं तस्मिन् निष्कासितवति चेत् तत्र चित्रलेखनस्थाने दर्पणः आसीत् । दर्पणः तु साक्षात् प्रतिबिम्बं अदर्शयत् ।
ततः देवस्य भगवतः निश्चितं रूपं कदाऽपि न भवति । सर्वरूपाणि तस्यैव । तम् इदमित्थमेव वर्णयितुम् मूर्खत्वाय कल्पते । परन्तु यदि मनसः शुद्धिः भवेत् हृदयं भक्तिप्रेमभावभरितं भवेत् तर्हि भगवतः साक्षात् दर्शनं प्राप्येत ।
मूलं आङ्ग्लभाषायां “Chinna Katha – 1” इति पुस्तके चतुर्थी कथा ।
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । इति तैत्तिरीयोपनिषदि । मनसा वा कायेन वा इन्द्रियैः वा भगवन्तं प्राप्तुम् ज्ञातुं न शक्यते ।
अणोरणीयान् महतो महीयान्
आत्मा गुहायां निहितोऽस्य जन्तोः ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमात्मनः ॥ – इति श्वेताश्वतरोपनिषदि ३-२० (https://sa.wikiquote.org/wiki/)