एकस्मिन् शनिवासरे पिता देवं पूजयन् आसीत् । तदा पुत्रं आहूय एकरूप्यकेण कदलीफलानि क्रीत्वा आनयतु इति आदिष्टवान् । सः सुहृत् बालकः आसीत् । सः यथा निर्दिष्टं तथा कदलीफलानि क्रीतवान् । परन्तु पुनरागमने मार्गे सः कौचन मातापुत्रौ दृष्टवान् । तौ बुभुक्षितौ मार्गे स्थितवन्तौ आस्ताम् । क्षुधितः बालः कदलीफलानि दृष्ट्वा तानि प्रति धावितवान् । धावन्तं पुत्रं स्थगयितुम् माता अपि धावित्वा तम् गृह्णाति किन्तु द्वावपि अधः क्षुधया पतितवन्तौ ।
बालकः तौ दृष्ट्वा चिन्तयति फलानां गृहं प्रति नयनस्य अपेक्षया बुभुक्षिताभ्यां दानं वरम् इति ।
बालकः आदौ तौ कदलीफलानि दत्वा जलमपि आनीय ददाति । तौ खादनेन बहु सन्तुष्टौ। तौ बहुधा कृतज्ञतां समर्पितवन्तौ । तयोः चक्षुर्भ्याम् आनन्दबाष्पाः स्रवन्तः आसन् ।
तदनन्तरं रिक्तहस्तः बालकः गृहं गतवान् । पिता तं दृष्ट्वा पृष्टवान् कदलीफलानि आनीतवान् वा इति । आम् इति पुत्रः प्रत्युत्तरं दत्तवान् । तर्हि कदलीफलानि कुत्र सन्ति इति पिता पृष्टवान् । पवित्राणि अदृश्यानि फलानि सन्ति इति पुत्रः । सः साक्षात् कदलीफलानि बुभुक्षिताभ्यां मातापुत्राभ्याम् दत्तवान् ततः पवित्रसत्कर्मफलानि गृहाय आनीतवान् इति पितरं विवृतवान् ।
पिता तस्य प्रेमपात्रं गौरवार्हं सुपुत्रं श्लाघितवान् । तस्य सर्वप्रार्थनाः प्रतिपन्नाः आसन् इति भावितवान् । तद्दिनात् प्रभृतिः पितापुत्रयोः अन्योन्यप्रीतिः वर्धमाना आसीत् ।
मूलं आङ्ग्लभाषायां “Chinna Katha – 1” इति पुस्तके पञ्चमी कथा ।