गुणवज्जनसंपर्काद् याति स्वल्पोऽपि गौरवम्। पुष्पाणाम् अनुसङ्गेन सूत्रं शिरसि धार्यते॥
स्वल्पः अपि गुणवत् जनानां संपर्कात् याति गौरवम् । यथा पुष्पाणाम् अनुसङ्गेन सूत्रम् अपि शिरसि धार्यते ॥
या शिला देवस्यरूपं स्वीकरोति सा गर्भगृहे तिष्ठति। सर्वे भक्ताः तां आदरेण पूजयन्ति। अन्यशिलाः देवालयस्य भूतलं वा स्थम्भं वा भवन्ति। ताः शिलाः कोऽपि न परिगणयति।
यः नटः श्रेष्ठपुरुषस्य वेषं धृत्वा तस्य पात्रं नटति सः प्रेक्षकाणाम् आदरं तस्य रूपम् आश्रित्य लभते। परन्तु वेषं विना तावत् गौरवं न प्राप्नोति।
यावत् प्राध्यान्यं मयूरपिच्छाय भक्तजनाः ददति तावत् अन्येषां खगानां पिच्छाः न लभन्ते। यतः मयूरपिच्छः श्रीकृष्णस्य मुकुटे तिष्ठति।