रघुनाथाय दाशरथाय रामाय नमः। श्रीरामः बाणेन रावणं हतवान्।
जमदग्निपुत्राय कोपज्वलिताय परशुरामाय नमः। परशुरामः परशुना क्षत्रियान् तर्दितवान्।
नन्दकुमाराय गोपिकाजाराय कृष्णाय नमः। श्रीकृष्णः चक्रेण शिशुपालं मारितवान्।
प्रह्लादरक्षकाय हिरण्यकशिपुध्वंसकाय नृसिंहाय नमः। नृसिंहः नखैः हिरण्यकशिपुं छिन्नवान्।
शुद्धब्राह्मणाय विष्णावताराय वामनाय नमः। वामनः पदेन बलिं पाताललोकं प्रेषितवान्।
बृहत्स्वरूपाय अनन्तभारवाहकाय वराहाय नमः। वराहः विषाणेन भूमिं रक्षितवान्।
चिरंजीवाय सृष्ट्याधाराय कूर्माय नमः। कूर्मरूपः कवचेन सागरमन्थनं चालितवान्।
निगमरक्षकाय ऋषिपालकाय मत्स्यरूपाय नमः। मत्स्यरूपः श्रुतिं स्वसङ्कल्पेन पातवान्।

Artist – Sonali Mohanty – https://pixels.com/featured/dashavatara-1-sonali-mohanty.html