सर्वेभ्यो नमो नमः। अद्यतनं सुभाषितम् अस्ति।
अग्निः काष्ठात्जायते मथ्यमानात् भूमिः तोयं खन्यमाना ददाति। सोत्साहानां नास्त्यसाध्यं नराणाम् मार्गारब्धाः सर्वयत्नाः फलन्ति॥
काष्ठात् मथ्यमानात् अग्निः जायते। भूमिं खननेन जलं प्राप्नोति। तथैव उत्साहानाम् असाधितव्यं कार्यं लोके नास्ति।
त्रयोदशवयस्का भारतीया तेलङ्गणाग्रामस्था बालिका सर्वोन्नतिं एवरेस्ट्-गिरिं आरोहितवती। सा कथं कृतवती। अन्यत्र प्रायशः तस्याः समानवयस्काः बालिकाः द्विचक्रिक्रां चालयितुम् अपि न जानन्ति। परन्तु एषा बालिका असाधारणप्रयासं कृत्वा यावत् प्रपञ्चं एव व्यस्माययत्।
यथा अग्निः काष्ठायां जलं भूमौ तथैव संसिद्धिः अपि अस्मासु बीजरूपेण तिष्ठति। तस्याः विकसनार्थं प्रयत्नम् करणीयम्। नोचेत् जीवने किमपि साधयितुं न शक्नोति।