संस्कृते व्याख्यानसहितम् – २४/०८/२०२१

भगवद्गीता कस्यां भाषायां अस्ति । संस्कृतभाषया विरचितं श्रीव्यासमहर्षिणा। परन्तु अनेके जनाः संस्कृतं न जानन्ति अतः आङ्ग्लभाषायां पठन्ति। तस्मात् अवगमने न्यूनता वर्तते। अनुवादं केवलं मूलश्लोकस्य भवति न तु व्याख्यानस्य। अवगमने कथं न्यूनता इति कैश्चन उदाहरणैः सूचयामि।

१. बुद्धिः इति पदस्य अनुवादपदं प्रायशः Intelligence / Intellect इति लिखन्ति। अस्य पदस्य अर्थः कः।

Intelligence / Intellect – the ability to learn, understand and think in a logical way about things; the ability to do this well इति Oxford English Dictionary मध्ये अस्ति।(https://www.oxfordlearnersdictionaries.com/definition/english/intelligence?q=intelligence)

Further intellect, brain are indicated as synonyms for the word Mind. (https://www.oxfordlearnersdictionaries.com/definition/english/mind_1?q=mind)

परन्तु अत्र यः अर्थः बोधितः सः भिन्नार्थः एव।

तत्वबोधः प्रकरणग्रन्थः श्री आदिशङ्कराचार्येण विरचितः। तस्मिन् एवम् अस्ति।

सङ्कल्पविकल्पात्मकं मनः। निश्चयात्मिका बुद्धिः। अहंकर्ता अहंकार:। चिन्तनकर्तृ चित्तम्।

पठित्वा झटिति भेदः अवगम्यते।

२. तितिक्षा इति पदस्य अनुवादपदं – Forbearance, Endurance, Patience इति सन्ति।

विवेकचूडामणि इति ग्रन्थे एवम् अस्ति।

सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥ २५ ॥

यत्किमपि वा भवतु मनः स्थिरतया स्थातव्यम्। सुखं वा भवेत् दुःखम् वा भवेत् अनुरोधं विरोधं च द्वापि अकृत्य स्थातव्यम्। सर्वदा चिन्तारहितं विलापरहितं च। केवलं अन्येभ्यः तद्वत् प्रदर्शनं न मनसि अपि शान्तिः भवेत्। एतानि लक्षणानि तितिक्षायां अन्तर्भवन्ति।

३. योगस्थः कुरु कर्माणि……..२.४८

अस्य श्लोकस्य सामान्यतः आङ्ग्लभाषायां एवं अनुवादं भवति। – Perform action, O Arjuna, being steadfast in Yoga, abandoning attachment and balanced in success and failure. Evenness of mind is called Yoga.

शाङ्करभाष्यम् अस्य श्लोकस्य निगूढार्थं अपि बोधयति।

योगस्थः  सन्  कुरु कर्माणि  केवलमीश्वरार्थम् तत्रापि ईश्वरो मे तुष्यतु इति  सङ्गं त्यक्त्वा धनञ्जय।  फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः तद्विपर्ययजा असिद्धिः तयोः  सिद्ध्यसिद्ध्योः  अपि  समः  तुल्यः  भूत्वा  कुरु कर्माणि। कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् इदमेव तत् सिद्ध्यसिद्ध्योः  समत्वं योगः उच्यते।
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम् एतस्मात्कर्मणः

ततः संस्कृतपुस्तकानि काव्यानि च संस्कृते एव पठनीयानि। अपि व्याख्यानसहितं पठनीयम्। नो चेत् अवगमने न्यूनता भवति।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s