त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन । रक्ते विरक्ते च वरे वधूनां निरर्थकः कुङ्कुमपत्रभङ्गः ॥ २.९८ ॥
कृष्णकर्णामृतात् एषः श्लोकः स्वीकृतः। ( https://www.sadagopan.org/ ) अन्वय: एवं वर्तते।
यदि त्वयि (श्रीहरौ) प्रसन्ने तर्हि मम गुणेन किम् (प्रयोजनम्)। यदि त्वयि अप्रसन्ने मम गुणेन किम् (प्रयोजनम्)। (यथा) वधूनां रक्ते वरे कुङ्कुमपत्रभङ्गः निरर्थकः अपि विरक्ते वरे वधूनां कुङ्कुमपत्रभङ्गः निरर्थकः। (भङ्गः – पुष्पम्)
कविः अत्र भक्तिविषये सम्यक् बोधयति। कर्मणा वा ज्ञानेन वा सत्वभावेन वा केनचन गुणेनापि भगवन्तं मोदयितुं न शक्नोति। सः तु केवलं भक्तप्रेम्णा तुष्यति।
लोके अनेके जनाः प्रतिदिनं ईश्वरं स्मरन्ति नमन्ति पूजयन्ति च । किन्तु भगवान् कस्य स्मरणं करोति। अनेकानाम् प्रियः श्रीकृष्णः किन्तु तस्य प्रिया का।
अस्माकाम् जीवनस्य लक्ष्यं किम् अस्ति। मया ईश्वरस्य नित्यस्मरणं भवेत् इति वा ईश्वरेण मम स्मरणं भवेत् इति वा।
अधुना नाटकेन वयम् जानीयाम। (अस्मिन् नाटके नारदस्य पात्रं स्वीकृतम्)