संरोहत्यग्निना दग्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्॥
वार्तायां वयम् श्रुण्मः एव वनाग्निः वर्धते इति। तया वननाशनं भवति इति वयम् चिन्ताग्रस्ताः भवामः। किन्तु अरण्ये अग्निना दग्धाः वृक्षाः पुनर्जीवन्ति वर्धन्ते च। एषः प्रकृतिनियमः अस्ति।
अत्र पश्य (60 Secs) – https://youtube.com/clip/Ugx6cfZB6N0yUXTFwFZ4AaABCQ
व्रणानि अपि औषधेन चिकित्सितुं शक्नुमः। किन्तु संवादे तद्वत् नास्ति। चतुर्वारं सञ्चिन्त्य वक्तव्यम्। किमर्थं चतुर्वारम्। कानि तानि।
१. सत्यं अस्ति न वा २. आवश्यकं अस्ति न वा
३. वाक् दयापूर्वकम् अस्ति न वा ४. अभाषणात् भाषणं श्रेष्ठम् अस्ति न वा
इतोपि विवरणम् आवश्यकम् चेत् अधो स्थापितं दृष्यकं पश्य।
अस्तु तर्हि कथया अपि अवगच्छाम।
वाक् पुरुषस्य संस्कारान् ज्ञापयति।
हे सैनिकगमनं श्रुतम् वा। इति कश्चन पुरुषः अन्धं पृष्टवान्। क्षणाभ्यन्तरे अरे अचक्षुकः मुखं उद्घाट्य वद किं अत्र भवता सैनिकानाम् गमनं श्रुतम् वा इति अन्यः कश्चन पृष्टवान्। समयानन्तरे अन्धं प्रति आगम्य अपरः पुरुषः पृष्टवान् वर्य अस्मिन् मार्गे सैनिकानाम् गमनं भवान् श्रुतवान् वा इति। अन्ते चतुर्थः कश्चन पुरुषः अन्तर्द्रष्टुः समीपं आगम्य प्रीत्या तस्मिन् स्कन्धे हस्तं संस्थाप्य विनयेन पृष्टवान् महोदय अस्मिन् मार्गे सैनिकानां गमनशब्दाः श्रुताः वा भवता।
ते के पृच्छकाः इति अन्धः सरलतया ज्ञातवान्। प्रथमः सैनिकः द्वितीयः सैन्याधिपतिः तृतीयः अमात्यः चतुर्थः महाराजः इति लक्षितवान्।
वाक् पुरुषलक्षणानि ज्ञापयति। जिह्वा हृदयस्य कवचमस्ति। सा जीवनस्य रक्षिका। दीर्घा वाक् अतिशया वाक् कोपेन वाचनं द्वेषेण वाचनं च न शोभन्ते। एतानि मानवं अस्वास्थ्यं कुर्वन्ति। एतैः कोपं द्वेषं च अन्येषु वर्धेते। एतानि अन्येषु उद्वेगं जनयन्ति। एतानि परस्परबन्धुत्वं भिन्दन्ति। तदर्थं मौनं सुवर्णतुल्यं इति वदन्ति। अवाचकस्य रिपवः मित्राणि च न भवन्ति। अपि तस्य अन्तरङ्गाणाम् परिशीलनं कर्तुम् अधिकसमयः वर्तते। सः स्वस्य गुणान् दुर्गुणान् च परीक्षितुं शक्नोति। अन्येषु दुर्गुणान् लक्षयितुम् सन्दर्भाः न भवन्ति। तस्य उत्तमा दृष्टिः वर्तते।
चलने पतनेन केवलम् अङ्गानां भग्नं भवति। किन्तु अपवादेन अन्यस्य विश्वासस्य आनन्दस्य मनसः स्थितेः वा भग्नं भवति। तानि चिकित्सितुं न अर्हन्ति। असाधु वाचा उत्पादितानि व्रणानि दीर्घकालपर्यन्तं मनसि स्थित्वा बाधन्ते। अतः जिह्वायाः सुष्ठु उपयोगं करवाम। अल्पवादनं मन्दवादनं मधुरवादनं च शोभन्ते अपि सर्वदा उपकारयन्ति।
(मूलम् – Chinna Katha – Part 1 इति आङ्ग्लभाषायां पुस्तकात् त्रिनवतितमा कथा)
भगवद्गीतायां श्रीकृष्णः बोधयति।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।१२.१५।।
अस्मात् अन्येषु उद्वेगः न जनितव्यः। अन्येभ्यः अस्मासु उद्वेगः न जनयितव्यः।
मम गुरुणा रचितायां आङ्ग्लभाषायां प्रातःकालिकायां प्रार्थनायां एवम् अस्ति।
Oh Lord I am now born from the womb of sleep. I am determined to carry out all the tasks of this day as offerings to You, with you ever present before my mind's eye. Make my words, thoughts and deeds sacred and pure. Let me inflict no pain on anyone, let no one inflict pain on me. Direct me and guide me this day. ॥ हरिः ॐ॥