अज्ञेभ्यः ग्रन्थिनः श्रेष्ठाः ग्रन्थिभ्यो धारिणो वराः। धारिभ्यो ज्ञानिनः श्रेष्ठाः ज्ञानिभ्यो व्यवसायिनः॥
अनेके न जानन्ति पर्यावरणरक्षं करणीयम् इति। केचन जानन्ति किन्तु न स्मरन्ति सर्वदा। स्मरन्ति चेदपि किमर्थं करणीयं कृत्वा कः लाभः इति न अवगच्छन्ति। तदर्थं न आचरन्ति। किन्तु केचन विरलाः मानवाः ज्ञात्वा आचरन्ति अपि। आचरन्तः ते अन्येषां प्रेरयन्ति अपि। तादृशेषु एकः उत्तमः व्यवसायी अरुण्कृष्णमूर्तिवर्यः। सः जानाति स्मरति अवगच्छति आचरति प्रेरयति कारयति चापि।
सामान्यतः लोके ये केवलं जानन्ति ते जल्पन्ति एव अधिकतया। अन्ये ज्ञात्वा अधिकतया आचरन्ति न प्रचारयन्ति। पुरुषलक्षणं कार्यं न तु कामे एव। यदि वयम् तादृशानि लक्षणानि अस्मासु वर्धयितुम् इच्छामः तर्हि तादृशान् पुरुषान् स्मरेम। स्मरेणैव तादृशं भवामः वा। नैव। किन्तु आदौ स्मरणं स्मरणात् ज्ञानं ज्ञानात् आचरणं। तदर्थं स्मरणीयम्।
बुद्धिर्बलं यशोधैर्यं निर्भयत्वम् अरोगता। अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत्॥
यद्भावं तद्भवति इति सुप्रसिद्धं वाक्यम् अस्ति। भावे तावत् शक्तिः वर्तते। अधुनातनकाले Power of Positive Thinking, Power of positive affirmations चेतराणि पुस्तकानि बहूनि सन्ति। केचन प्रातःकाले शृण्वन्ति। अन्ये कार्यालयं गमनागमनसमये एकान्ततः आकाशवण्या शृण्वन्ति। किन्तु एतानि अस्माकं संप्रदाये चिरकालात् सन्ति।
पूजापद्धतौ अर्चनम् अपि भवति। तत्र १०८ वा १००८ देवनामानि जपन् पुष्पार्पणं कुर्मः। यदि संस्कृतभाषाज्ञानम् अस्ति चेत् वयम् जानीयाम यत् तदपि Positive thinking एव। उदाहरणार्थं श्रीविष्णुसहस्रनामावलीं स्वीकराम।
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः। संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥ (४)