योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गवीहीनः। यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव॥१९॥
योगसुखात् लोकसुखात् सत्सङ्गसुखात् एकान्तसुखात् सर्वसुखात् ब्रह्मानन्दं सुखतरम् अस्ति। यस्य चित्तं ब्रह्मणि तिष्ठति सः सदा नन्दति एव। अहं स्वयं न जानामि ब्रह्मानन्दस्य अनुभवं कीदृशम् अस्ति इति। किन्तु अत्र जगद्गुरुः स्पष्टतया प्रतिपादयति यत् यदि सुखस्य तृष्णा भवेत् तर्हि ब्रह्मानन्दस्य एव भवितव्या।
जीवने वयम् सर्वकर्माणि सुखार्थम् एव कुर्वन्ति। यदि अन्ततो गत्वा सुखानुभवं न भवति चेत् वयम् तानि कार्याणि पुनः न कुर्मः एव। ये तत्वज्ञानं जानन्ति ते संसारसागरे पुनः न पतन्ति। ते संसारचक्रात् विमुक्ताः भवेयुः।
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः। क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः॥१०॥
एका लघ्वी कथा #७ (Chinna Katha Part 1 – इति आङ्गलभाषापुस्तकात् स्वीकृता काथा)
लोके किं सर्वश्रेष्ठं इति नारदः प्रश्नं पृष्टः आसीत्। भूमिः सर्वसम्पन्ना बृहती इति कारणात् इति नारदेन उत्तीर्णम्। किन्तु भूमेः त्रिपादस्य भागं जले तिष्ठति। कदापि जलं भूमेः एकपादभागं अपि ग्रसितुं शक्नुयात्। तदर्थं जलमेव सर्वश्रेष्ठम् इति नारदेन अङ्गीकृतम्। किन्तु अगस्त्यमहर्षिणा सम्पूर्णसागरः गीर्णः आसीत्। तेन शुष्कसागरः अभूयत। इदानीं अगस्त्यमहर्षिः केवलं एकं नक्षत्रं बिन्दुमात्रं भूत्वा विशाले गगने तिष्ठति। तर्हि अन्तरिक्षं सर्वश्रेष्ठं वा। तदपि नास्ति यतः श्रीमहाविष्णुः वामनरूपे एकेन पदेन अन्तरिक्षं सम्पूर्णतया ग्रसितवान्। तर्हि महाविष्णुः एव सर्वश्रेष्ठः सृष्टौ। किन्तु तस्य स्वतन्त्रता अस्ति वा। तस्य निवासक्षेत्रं किम् अस्ति। भक्तस्य हृदयम् एव तस्य परमधामम् अस्ति।
यः साक्षात् भगवन्तम् एव तस्य हृदये बन्धयति चेत् तस्य लोकाय का तृष्णा भवति। एतदेव उपरि लिखिते श्लोके अन्तपादस्य ज्ञाते तत्वे कः संसारः इत्यस्य अर्थं बोधयति।
एतं गानं (Bhajana) मह्यम् बहु रोचते।
Ayodhya Vihari Sri Rama Rama Rama Dwaraka Vihari Sri Krishna Krishna Krishna Saptagiri Vihari Govinda Govinda Nija Bhaktha Hrudaya Vihari Sri Sainatha Deva इदनीम् मम गुरोः वचनानि स्थापयित्वा लेखनं समापयामि।