एकदा कश्चन बालकः विद्यालयं प्रति गच्छन् आसीत्। किन्तु सकृत् विस्मृतवान् केन उपमार्गेण गन्तव्यम् इति। तत्रैव स्थित्वा चिन्तितवान्। पुनःस्मरणं न प्राप्तम्। तं परितः सर्वं दृष्टवान्। यदा सः एकं शुनकं लक्षितवान् तदा स्मृतवान् यत् तम् शुनकं सः विद्यालयस्य समीपे इतः पूर्वं दृष्टवान् आसीत्। निश्चिन्ततेन सः शुनकं अनुसृतवान्। यत्र यत्र शुनकः अगच्छत् तत्र तत्र बालकः गतवान्।
नववादने विद्यालये सार्वजनिकसभायां प्रातःगीता प्रचलति। इदानीं तु सार्ध अष्टवादनम् अस्ति। सः विद्यालयं न प्राप्तवान्। शुनकः इतस्ततः अटति। एषः बालकः तथैव भ्रमति। शुनकः एकस्मिन् भवने प्रवेशं करोति। तदैव बालकस्य प्रज्ञा आगच्छति। अहो अहम् अत्र किमर्थम् अस्मि इति विचिन्त्य अन्ये दिशि चलितवान् विद्यालयम् प्रति।
आबाल्यात् एषः बालकः सकृत् सर्वं विस्मरति किन्तु दशनिमेषाणाम् अनन्तरम् पुनः सर्वं तस्य मनसि प्रज्ञायां आगच्छति। सः पञ्चोननववादने सभामध्ये गत्वा तूष्णीं स्थितवान्। प्रार्थनानन्तरम् कक्षां प्रति गच्छन्ति छात्राः अध्यापकाः च।
कक्षायां एषः गवाक्षस्य वामतः उपविष्टवान्। वातायनेन सः क्रीडाङ्गणं विपणिं लोकयानस्थानकं च द्रष्टुं शक्नोति। स्यूतात् पुस्तकं स्वीकृत्य उत्पीठिकायां स्थापितवान्। मन्दम् उद्घाटितवान्। तदा ज्ञातवान् यत् तेन गृहकार्यं न कृतम् इति। बालकस्य नाम अशोकः। अध्यापकः आगम्य उपस्थितानां छात्राणां गणनसमये गृहकार्यस्य विषयं मां पृच्छति चेत् किम् वक्तव्यम् इति चिन्ताग्रस्तः जातः।
सः पश्यति अध्यापकं क्रीडाङ्गणस्य समीपम्। दशनिमेषान्ते अध्यापकः कक्षायाम् आगच्छति। ततः पूर्वं उपायं रचनीयम्। किन्तु मनसि किमपि न आगच्छति। अध्यापकः आगच्छन् अस्ति। आगम्य तस्य आसने उपविशति। उपस्थितानां गणनम् आरम्भं करोति। यदा सः अशोकं आह्वयति तदैव बालकः सर्वं विस्मरति। अध्यापकः बालकस्य स्थितिम् अवगम्य बालकं गृहकार्यस्य विषये किमपि न पृच्छति।
भो पाठक। अग्रे किम् भवति इति जानाति वा। कृपया ऊहस्व।
अतीव रुचिकरम्। पश्चात् किम् अभवत्? कृपया वद!
LikeLiked by 1 person