छात्रः गगनासक्तलोचनः तूष्णीं तिष्ठति। अधः पश्यति उपरि पश्यति बहिः पश्यति तद्पश्चात् उपविशति। सः भ्रमेण व्यवहरति। सहपाठिनः अध्यापकाः च सर्वे तस्य अस्वास्थ्यं जानन्ति एव। तदर्थं चिन्तां विना कक्षां प्रचलितवन्तः।
यथा पूर्वं दशनिमेषानन्तरम् पुनः तस्य प्रज्ञा स्फुरति। तदानीम् एव आचार्यः तं दृष्ट्वा गृहकार्यं समापितवान् वा इति पृष्टवान्। अशोकः अधोमुखः मृदुस्वरेण नास्ति महोदय क्षम्यताम् इति प्रार्थितवान्। कुपितः अध्यापकः उच्चैः निर्गच्छतु कक्षातः इति कठिनवाक्यैः तं निष्कासितवान्।
खिन्नः अशोकः यथानिर्दिष्टं तथा स्यूतं पुस्तकानि आहारपेटिकां च स्वीकृत्य रुदन् बहिः गतवान्। सोपानस्य अवतरणे मातरं स्मृतवान्। तस्य प्रियतमं स्थानं क्रीडाङ्गणे श्रीकृष्णस्य मूर्तेः पृष्ठतः उपविष्टवान्। वदनं वामहस्ते स्थापयित्वा दक्षिणहस्तेन सिकताः गणयन् किङ्कर्तव्यम् इति चिन्तयन् आसीत्।
सकृत् आह्लादकभावाः तस्मिन् उत्पतितवन्तः। नन्दन् अशोकः तं परितः पश्यति चेत् सः तु अन्यस्मिन् लोके अस्मि इति अवगतवान्। बालकृष्णः समवयस्कः दर्शितवान्। अहो अशोकस्य परमानन्दं। अद्य मम जन्मदिनम् इति कारणात् सर्वे माम् एव स्मरन्ति किन्तु अहं साक्षात् भवता साकं समयं यापयितुम् इच्छामि इति उक्तवान् नटवरकृष्णः। अशोकेन अपरिमितानन्दः अभूयत।
लीलाविहारी गोपालः अशोकस्य शोकं निवारितवान्। तेन साकं क्रीडित्वा हसन् संभाषणं कृतवान्। यदा गमनसमयः आगतः तदा अशोकः कृष्णात् वरं प्रार्थितवान्। यदाकदापि भवतः स्मरणं करोमि तदा भवतः सुन्दराह्लादकरमधुरवदनं दर्शयतु इति प्रीत्या तस्य इच्छां समर्पितवान्। श्रीकृष्णः निश्चयेन इति अनुगृहीतवान्।
किमर्थं भवतः इच्छां पूरयन् अस्मि इति जानाति वा। अहं अस्मिन् क्रीडाङ्गणे आदशवर्षात् अस्मि। कोऽपि माम् कृष्णः इव न भावयति। भवान् जीवने आनन्दमयसमये सङ्कटे वा मम समीपं आगम्य सर्वं माम् निवेदयति। यथा मात्रा निर्दिश्यते तथा आचर्यते विश्वासेन। ततः भवान् मम प्रियं मित्रम् अस्ति।
अशोकः बह्वानन्देन कृष्णम् आलिङ्गितवान्। क्षणाभ्यन्तरे कृष्णः निर्वातवान्। अशोकः नेत्रे उन्मील्य जानाति यत् कृष्णः स्वस्थानं गतवान् आसीत् इति। शोकरहितः अशोकः आनन्देन नटन् गृहं गतवान्।