उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥
यः तिष्ठति एतेषु कठिनेषु स्थरेषु समयेषु च सः एव बान्धवः तु इति पञ्चतन्त्रे लिखितः श्लोकः अस्ति।
आगच्छन्ति काश्चन जनाः स्वार्थाय गच्छन्ति फलानि प्राप्त्वा। ते बन्धवाः न भवन्ति। अस्मिन् लोके एतं श्लोकं आश्रित्य कः बन्धवः कः न इति लक्षयितुं शक्यते।
किन्तु वयम् जानीमः एव यत् अस्माकं कर्माण्यनुसारं पुनः पुनः जन्मानि भवन्ति इति। तर्हि इह लोके परलोके च द्वयोः लोकयोः कः बान्धवः। कोऽपि न। एकाकिनः आगच्छामः एकाकिनः गच्छामः।
अत्र भजगोविन्दात् श्लोकः स्मर्यते।
यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे। गतवति वायौ देहापाये भार्या बिभ्यति तस्मिङ्काये॥ ६ ॥
यावत् देहे वायुः प्राणः अस्ति तावत् पर्यन्तम् एव पृच्छति कुशलम्। यदा जीवः देहात् निर्गच्छति भार्या अपि शवात् बिभेति।
मम परम सौभाग्यम् खलु स्वामिनः छात्रः भूत्वा तस्य दर्शनस्पर्शनसंभाषणभाग्यानि प्राप्तवान्। सरलतया ईदृशानि जीवनतत्वानि बोधितानि। तस्य बोधनविधानं निदर्शनार्थम् अत्र एकं दृश्यकं स्थापयामि।
NICE
LikeLike