नमो नमः पठितृभ्यः। एतत् चतुष्पञ्चाशत्तमं लेखनम् अस्ति। यदा आरम्भं कृतवान् तदा प्रतिदिनं लिखामि इति कल्पना अपि नासीत्। किन्तु भगवतः कृपया गुरोः प्रेरणया ज्येष्ठानाम् साहाय्येन एतावत् नित्यलेखनं प्रचलति। मम उद्देशं तु नित्याभ्यासः भवतु इत्येव।
अद्यतनं सुभाषितम् एवं अस्ति।
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये। आयासायापरं कर्म विद्यान्या शिल्पनैपुणम॥
एषः श्लोकः विष्णुपुराणतः इति सुभाषितानाम् पुस्तकस्य कश्चन लिखकः सूच्यते। किन्तु स्वयं न जानामि श्लोकस्य मूलस्थानं किम् इति।
अन्वयः – तत कर्म यत् न बन्धाय (कल्पते)। सा विद्या या विमुक्तये। अपरं कर्म केवलम् आयासाय (भवति)। अन्या विद्या केवलम् शिल्पनैपुण्यं (कारयति)।
अत्र स्वचिन्तनम् एवं अस्ति।
अधुना पाश्चात्यदेशानां अपेक्षया भारतदेशे अभिवृद्धिः (Development) न्यूना इति अनेके मन्यन्ते। किन्तु अत्र मम अभिप्रायभेदः वर्तते।
यदि कश्चन पुरुषः पादे कण्टकेन पीडां अनुभवति तर्हि सः पादात् तं निष्कासयितुं प्रयत्नं करोति। यदा सः कण्टकेन पीडां अनुभवन् धनस्यूतम् वा वाहनस्य कुञ्चिकां वा लक्षयितुं असमर्थः भवति तर्हि का पिडा आधिक्येन तम् बाधयति।
प्रायशः धनस्यूतविलोपनं वा वाहनकुञ्चिकालोपनम् इति मन्ये।
यदि कश्चन बालकः तस्य प्रियलेखनीं कुत्र स्थापितवान् इति विस्मरति तर्हि खिन्नो भूत्वा विचारयति वा रोदिति। अप्राप्तौ बालकः यदि गृहगमनार्थं लोकयानस्थानकं समये न गच्छति तर्हि चिन्ताग्रस्तः सन् बिभेति। कस्य चिन्ता अधिकतया तम् बाधयति। लेखनीं न प्राप्तवान् इति वा समये लोकयानस्य आरोहणं न अभवत् इति वा।
अहं मन्ये कथं गृहं गच्छामि इत्येव तस्य महत्चिन्ता भवति।
इदानी एतानि उदाहरणानि आश्रित्य मम वादं स्थापयामि।
तथैव अस्माकं पूर्वजाः सर्वशोककारणस्य निवारणार्थं सततं यतन्ते स्म। तेषां दृष्ट्या स्वास्थ्यसौल्भ्यार्थिकबाधादीनाम् अपेक्षया अविद्या एव महत्तमा पीडा स्यात्। एतस्याः अविद्यायाः निवारणार्थं ते घोरतपोभिः निरन्तरं श्राम्यन्ति स्म। अन्याः पीडाः निवारयति चेदपि पुनः तासां आगमनं भवेयुः। किन्तु अविद्यायाः अज्ञानस्य च निवारणे साश्वतानन्दप्राप्तिः भवतु इति आशया ते साधनं कुर्वन्तः स्म। ज्ञानप्रचोदयनेन मानवः नित्यानन्दः भवेत्।
अतः भारतेदेशस्य अभिवृद्धिः उन्नता एवास्ति। तदर्थं ते अघोषयन् यत् सा विद्या या विमुक्तये। तदर्थं ते तत् कर्म यन्न बन्धाय इति अप्रथन्त।
