सर्वेभ्यो नमो नमः।
अस्माकं पूजागृहेषु कया भाषया अर्चनं जपं मन्त्रोच्चारणं च वयम् कुर्मः स्म।
अस्माकं इतिहासः कया भाषया विरचितः अस्ति।
अस्माकं नाम्नाम् अर्थं ज्ञातुं कस्याः भाषायाः अपेक्षा वर्तते।
वेदाः उपनिषदः वेदाङ्गाः शास्त्राणि च कया भाषया पठितुं शक्नुमः।
एतेषां प्रश्नानाम् उत्तरम् अस्ति संस्कृतभाषा।
संस्कृतस्य अध्ययनम् अस्माकम् सौभाग्यम्। संस्कृतस्य अध्यापनं अस्माकम् कर्तव्यम्। संस्कृतं विना संस्कृतिः नास्ति।
भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति उच्यते।